________________
॥ ५१ ॥ पञ्चम्यां पृष्टमिति च, क्षिप्यते तत्र पञ्चकम् । पञ्चषष्टियुतानीति, शतानि द्वादशाभवन् ॥ ५२ ॥ षडशीतिशतेनैषां भागे लब्धाञ्च षट् ततः । षड् गतान्ययनान्यस्ति, साम्प्रतं दक्षिणायनम् ॥ ५३ ॥ शेषमेकोनपञ्चाशदधिकं शतमस्ति यत् । तस्मिंश्चतुर्गुणे पञ्च शताः षण्णवतिस्पृशः ॥ ५४ ॥ हृताञ्चैकत्रिंशतामी, प्राप्ता चैकोनविंशतिः । शेषाः सप्ताङ्गलास्ते च स्युर्यवा अष्टभिर्हताः ॥ ५५ ॥ षट्पञ्चाशद्यवा जातास्ते चैकत्रिंशता हृताः । लब्ध एको यवः शेषाः, पञ्चविंशतिरंशकाः ॥ ५६ ॥ पाद एकोनविंशत्याऽङ्गुलैः सप्ताहुलाधिकः । याम्यायनत्वादेतच्च वर्द्धनीयं पदद्वये ॥ ५७ ॥ ततः पादत्रयं सप्ताङ्गुलान्येकस्तथा यव: । एकत्रिशद्भवाः पञ्चविंशतिश्च यवांशकाः ॥ ५८ ॥ पञ्चाशीतितमे पर्वण्येतन्माना युगे भवेत् । पञ्चम्यां पौरुषीत्येवं, कार्याऽन्यत्रापि भावना ॥ ५९ ॥ युगे वा सप्तनवते, पर्वणां समतिक्रमे । पञ्चम्यां स्यात्कतिपदा, पौरुषीत्यत्र कथ्यते ॥ ६० ॥ अत्र षण्णवतिः पञ्चदशना गतपर्वणाम् । पञ्चाढ्या स्याच्छताः पञ्चचत्वारिंशाश्चतुर्दश ॥ ६१ ॥ षडशीतिशतेनैषां भागे सप्त करं गताः । सप्तायनी गता तस्मात्संप्रत्यस्त्युत्तरायणम् ॥ ६२ ॥ त्रिचत्वारिंशदधिकं शेषं यद्वर्द्धते शतम् । तस्मिंश्चतुर्गुणे पञ्चशती स्यात्सद्विसप्ततिः ॥ ६३ ॥ विभक्तैकत्रिंशतेयं, प्राप्ता चाष्टादशाङ्गुली । तथा चैकं पदं लब्धमधिकान्यङ्गुलानि षट् ॥ ६४ ॥ शेषाश्चतुर्दशांशा ये, स्युर्यवास्तेऽष्टताडिताः । शतमेकं भवत्येवं यवानां द्वादशोत्तरम् ॥ ६५ ॥ तस्यैकत्रिंशता भागे, हृते लब्धास्त्रयो यवाः । शेषाश्चैकत्रिंशदंशा, यवस्यैकोनविंशतेः ॥ ६६ ॥ सौम्यायनत्वादेतच्च, शोध्यं पदचतुष्टयात् । ततः स्यात्पौ
Jain Educatinational
For Private & Personal Use Only
१०
१४
jainelibrary.org