________________
Jain Education
सर्विंशतिशतं भागाः स्युः पञ्चदशभिर्दिनैः । एकषष्ट्यंशयुग्मोनं, तैश्च स्यादङ्गुलद्वयम् ॥ २४ ॥ यत्तु 'अङ्गुलं सत्तरतेण, पक्खेणं तु दुअङ्गुलं ' इत्युच्यते तद्व्यवहार इति ज्ञेयं, श्रीउत्तराध्ययन सूत्रवृत्तौ च 'अङ्गुलं सत्तरत्तेर्ण' इत्यस्य व्याख्याने अङ्गुलं सप्तरात्रेण सार्द्धनेति शेषो द्रष्टव्यः इत्युक्तमस्ति, तथा चाङ्गुलमेकैकषष्ट्यंशन्यूनमेव स्यादिति ध्येयं ॥ त्रिंशता च दिनैश्चत्वारिंशमंशशतद्वयं । चतुर्भिरेकषष्ट्यं शैस्तेनोना चतुरङ्गुली ॥ २५ ॥ अहोरात्रार्द्धस्य भागचतुष्कस्यात्र योजने । सार्द्धया त्रिंशताऽहां स्यात्पूर्णाङ्गुलचतुष्टयी ॥ २६ ॥ एकः पादस्त्रिभिर्मासैर्वृद्धिहान्योर्भवेदिति । अयनेन च पूर्णेन भवत्येवं पदद्वयम् ॥ २७ ॥ इदमर्थलेशतो नन्दीवृत्यादौ । यत्तु ज्योतिष्करण्डादौ, वृद्धिहान्योर्निरूपिताः । चत्वारोऽत्राङ्गुलस्यांशा, एकत्रिंशत्समुद्भवाः ||२८|| तात्पर्य भेदस्तत्रापि न कश्चिदिति भाव्यताम् । यतस्तिथीन् पुरस्कृत्य तत्रेयं पद्धतिः कृता ॥ २९ ॥ अहो - रात्रान् पुरस्कृत्य, पूर्वमुक्ता च पद्धतिः । हानिवृद्धिफलं त्वत्र न किञ्चिदपि भिद्यते ॥ ३० ॥ तथा ह्येकत्रिशता स्युस्तिथिभिः परिपूर्णकाः । सार्द्धास्त्रिंशदहोरात्रास्तच्च प्राक सुष्ठु भावितम् ॥ ३१ ॥ तत्सार्द्धत्रिंशताऽह्नां स्याद्यथाऽङ्गुलचतुष्टयम् । तथैकत्रिंशताऽपि स्यात्तिथिभिस्तच्चतुष्टयम् ॥ ३२ ॥ तथाहि - चत्वार एकत्रिंशघ्नाचतुवैिशं शतं भवेत् । एकत्रिंशद्विभक्तेऽस्मिन् स्यादङ्गुलचतुष्टयम् ॥ ३३ ॥ मासे मासे रवेरेवं, तिथ्यर्द्धाधिक्यमूह्यताम् । अहोरात्रैकषष्टौ स्युद्वषष्टिस्तिथयो यथा ॥ ३४ ॥ त्र्यशीत्याट्यमहोरात्रशतं यद्यनेय भवेत्तत्र तिथीनां तत्बडशीत्यधिकं शतम् ॥ ३५ ॥ एकत्रिंशद्विभक्तस्याङ्गुलस्यांशचतुष्टयम् । वृद्धिहान्योर्य
For Private & Personal Use Only
१०
१४
ainelibrary.org