________________
पौरुषी प्रकरणं
लोकप्रकाशे चतुर्विंशतिरङ्गुलाः॥ ८ ॥ चतुर्विंशत्यङ्गुलस्य, शङ्कोइछाया भवेदिति । दिने सौम्यायनस्यायेऽष्टचत्वारिंशदकालनिरू- मुलाः ॥९॥ चतुर्विशत्यङ्गुलस्य, शङ्कोइछाया यथोदिता । चतुर्विंशत्यङ्गुलस्य, जानोरपि तथा भवेत् ॥१०॥ पणे अत एव च-दिने याम्यायनस्याद्ये, द्विपदा पौरुषी भवेत् । जानुच्छायाप्रमाणा सा, मीयमाना स्वजानना
॥११॥ पादद्वितयमानश्च, जानुः स्यात्पादमूलतः। द्वादशाङ्गुलमानोऽत्र, पादो न तु षडङ्गुलः ॥१२॥ वितस्ति॥४०६॥
माना स्याच्छाया, मीयमाना वितस्तिना। याम्यायनादौ पौरुष्यां, पादोऽत्र स्यात् षडङ्गुलः ॥ १३ ॥ ततश्च जानुच्छायायामङ्गलं वर्द्धते यदा। तदा वितस्तिच्छायायामङ्गलार्द्ध विवर्द्धते ॥ १४ ॥ लघीयसो वस्तुनोऽपि, खवमानानुसारतः। एवं छायावृद्धिहानी, भावनीये स्वयं बुधैः ॥ १५॥ अयने दक्षिणे वृद्धौ, ध्रुवकः स्यात्पदद्वयम् । हानी च ध्रुवकः सौम्यायने पदचतुष्टयम् ॥ १६॥ नभाकृष्णप्रतिपदि, द्विपदा पौरुषी भवेत् । युगस्य प्रथमेऽर्काब्दे, वर्द्धते च ततः क्रमात् ॥ १७॥ एवं च-माघस्य कृष्णसप्तम्यां, पौरुषी स्याच्चतुष्पदा। प्रागुक्तरीत्या क्रमतस्तत आरभ्य च क्षयः॥१८॥ द्वितीयेऽदे नभाकृष्णत्रयोदश्याः प्रभृत्यथ । वृद्धिर्माघश्वेततुर्यो, चादिं कृत्वा भवेत्क्षयः ॥ १९॥ तृतीयेऽन्दे नभाशुक्लदशम्यां वृद्धयुपक्रमः । माघकृष्णप्रतिपदि. क्षयस्यादिः प्रकीर्तितः॥२०॥ वृद्ध्यारम्भश्चतुर्थेऽन्दे, सप्तम्यां नभसः शितौ । माघकृष्णत्रयोदश्या, आरभ्य च ततः क्षयः॥ २१॥ नभाशुक्लचतुथ्यों च, वृद्धयादिः पञ्चमेऽब्दके । माघशुभ्रदशम्याश्च, प्रारभ्य भवति । क्षयः ।। २२ ॥ वृद्धौ क्षये च सततमङ्गुलस्यैकषष्टिजाः । अष्टांशाः पञ्चभागोनमङ्गुल सप्तभिर्दिनैः ॥ २३ ॥
२५
॥४०६॥
२८
Jain Educho
For Private Personal Use Only
NHainelibrary.org