SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education जितो हि सा । भावनैवं शेषराशेः, सप्तविंशतिशोधने ॥ ६ ॥ आरभ्य श्रवणादत्रोत्तराषाढावसानकम् । सप्तविंशतिसङ्ख्याकमवधार्यं भमण्डलम् ॥ ७ ॥ शेषराशेस्ततः सप्तविंशतिर्यदि शुध्यति । शुद्धं तदाऽखिलमपि, | ज्ञेयमस्मानमण्डलम् ॥ ८ ॥ नाल्पत्वाच्चेदितः सप्तविंशतिः शोद्धुमर्हति । तदा द्वाविंशतिः शोध्या, शुद्धयेन्नै - षाऽपि चेत्तदा ॥ ९ ॥ शोध्या अष्टादशामीषां, शोधनासंभवे सति । त्रयोदश दशैषां चासंभवे पञ्च शोधयेत् ॥ १० ॥ द्वाविंशतौ विशुद्धायामत्र शुद्धानि भावयेत् । सर्वाणि श्रवणादीनि, विशाखांतानि भान्यथ ॥ ११ ॥ अष्टादशसु शुद्धेषु, शुद्धानीह विचिन्तयेत् । श्रुत्यादीन्युत्तराफाल्गुन्यन्तान्यष्टादशाप्यथ ॥ १२ ॥ त्रयोदशसु शुद्धेषु, शुद्धानि परिभावयेत् । श्रुत्यादीनि पुनर्वस्वन्तानि भानि त्रयोदश ॥ १३ ॥ एवं दशसु शुद्धेषु, रोहिण्यन्तानि चिन्तयेत् । उदरभद्रपदान्तानि, तथा शुद्धेषु पञ्चसु ॥ १४ ॥ पर्यन्त सूचकान्यत्र, यानि प्रोक्तानि भानि षट् । सार्द्धक्षेत्राण्येव तानि, ज्ञेयानि निखिलान्यपि ॥ १५ ॥ तथाहि - श्रवणात्पञ्चमी सार्द्धक्षेत्रा भाद्रपदोत्तरा । दशमं ब्राह्ममादित्यं त्रयोदशं च तादृशम् ॥ १६ ॥ उत्तराफाल्गुनी चाष्टादशी भवति तादृशी । सार्द्धक्षेत्रं विशाखाख्यं, द्वाविंशतितमं श्रुतेः ॥ १७ ॥ स्यात्सप्तविंशा तत्राथोत्तराषाढापि तादृशी । एतानि स्युः पञ्चचत्वारिंशन्मुहूर्त्तकानि यत् ॥ १८ ॥ तथाहुः - “पंच १ दस २ तेरस ३ द्वारसेव ४ बावीस ५ सत्तावीसा य ६ । सोज्झा दिवङ्कखित्तंत भद्दवाई असाढता ॥ १९ ॥ एवं चाधस्तने शेषराशौ संशोधिते सति । एकादिचतुरन्तं यच्छेषं तचन्द्रभं गतम् ॥ २० ॥ अत्र च एकादिचतुरन्तं यच्छेषं तत्रिंशद्गुणनेन मुह For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy