________________
लोकप्रकाशे कालनिरूपणे
॥ ४०३ ॥
Jain Education
तकृत्य तस्मात्क्रमप्राप्तं यन्नक्षत्रं तद्यदि समक्षेत्रं तदा त्रिंशत् शोध्यते, अर्द्धक्षेत्रं चेत्पञ्चदश शोध्यन्ते, एवं शोधने यच्छेषं तचन्द्राक्रान्तस्य नक्षत्रस्यातीतं मुहर्त्तादिकं भवतीति ज्ञेयं ॥ यच्चोपरितने राशावेकविंशतिशोधने । शेषं तत्रिंशताऽऽहत्य, सप्तषष्ट्या विभज्यते ॥ २१ ॥ लब्धा मुहूर्त्ता ज्ञातव्या, यत्तु तत्रापि शिष्यते । ते विज्ञेया मुहूर्त्तस्य, विभागाः सप्तषष्टिजाः ॥ २२ ॥ यथा युगस्य प्रथमे वर्षे दशसु पर्वसु । अतिक्रान्तेषु पञ्चम्यां किं नक्षत्रं निशापतेः १ ||२३|| यात्रातीतपर्वसङ्ख्या, वर्त्तते दशलक्षणा । तस्यां पञ्चदशन्नायां पञ्चाशं जायते शतम् ॥ २४ ॥ पञ्चम्यां पृष्टमिति च चत्वारस्तिथयो गताः । ततश्चतुष्टयं तत्र योजनीयं मनखिभिः ॥ २५ ॥ चतुष्पञ्चाशदधिकं शतं स्याद्राशिरेष च । हीनो द्वाभ्यामवमाभ्यां द्विपञ्चाशं भवेच्छतम् ॥ २६ ॥ तस्य द्व्यशीत्या भागे यद्रूपमेकमवाप्यते । तदृद्धं न्यस्यते शेषां, सप्ततिं च न्यसेदधः ॥ २७ ॥ कृतश्चतुर्गुणो | लब्धराशिरत्रैकलक्षणः । चत्वारः सप्ततिश्चोर्द्धाघोभावेन स्थिता इह (ॐ) ॥ २८ ॥ अथोपरितनाद्राशेः, स्तोक| त्वादेकविंशतिः । शोद्धुं न शक्यते तेनाघः स्यात्सप्ततिलक्षणात् ॥ २९ ॥ एकं रूपं समादाय, सप्तषष्टिगुणीकृतम् । निक्षिपेद्र्द्धगे राशौ, तज्जाता सैकसप्ततिः ॥ ३० ॥ एकोनसप्ततिश्चाधस्तिष्ठेद्राशेरथोर्द्धगात् (३) । शोधितायामभिजितः, सत्कायामेकविंशती ॥ ३१ ॥ पञ्चाशच्छिष्यतेऽधःस्थाद्राशेश्च सप्तविंशतौ । शोधितायां भचक्रस्य द्विचत्वारिंशदास्थिता (३) ॥ ३२ ॥ शोध्यते चोर्द्धगाद्राशेः, पुनरप्येकविंशतिः । राशेरधस्तनात् सप्तविंशतिर्भगणस्य च ॥ ३३ ॥ एकोनत्रिंशदूर्द्ध स्यादधः पञ्चदश स्थिताः (३) । एकविंशतिरुर्द्धस्थाद्राशे
tional
For Private & Personal Use Only
मुहूर्त्तप्रक
रणं नक्षत्र
प्रकरणं
२०
२५
॥ ४०३ ॥
२८
lainelibrary.org