________________
Jain Education I
तत्कलाऽप्यादिमोदिता । तदेककात्तत्कलाकान्न किंचिदपनीयते ॥ ५७ ॥ यदस्मादेककादेककलापनयने भवेत् । शून्यं शेषं ततो न स्याद्गुणनाया क्रियोत्तरा ॥ ५८ ॥ यथा पूर्वोक्तपृच्छायामेका याऽभिजितः कला । गुण्यते त्रिनवत्याढ्यैः सा त्रयोदशभिः शतैः ॥ ५९ ॥ तावदङ्का भवेत्रिंशैनैषाऽष्टादशभिः शतैः । विभक्तुं शक्यते तेन, विधिः शेषो विधीयते ॥ ६० ॥ त्रयोदशशती सत्रिनवतिर्द्विर्निधीयते । एको राशिचैकषष्ट्या, हियते तत्र चाप्यते ॥ ६१ ॥ द्वाविंशतिः क्षिप्यते सा, परराशौ ततो भवेत् । चतुर्दशशती पञ्चदशभिस्सहिताऽथ सा ॥ ६२ ॥ हियते पञ्चदशभिश्चतुर्नवतिराप्यते । शेषा स्तिष्ठन्ति पञ्चाशास्ततः पूर्वोक्तनिर्णयः ॥ ६३ ॥ चतुनवतिसङ्ख्यस्य, पर्वणः पञ्चमीतिथौ । सूर्योदये चन्द्रमसा भुक्तैकाभिजितः कला ॥ ६४ ॥
करणानि निरूप्यन्ते, तिथ्यर्द्धप्रमितान्यथ । भवन्ति तानि द्वैधानि, चराणि च स्थिराणि च ॥ ६५ ॥ ववं च बालवं चैव, कौलवं स्त्रीविलोचनम् । गरादि वणिजं विष्टिः, सप्तैतानि चराणि यत् ॥ ६६ ॥ अन्यत्र स्त्रीविलोचनम्थाने तैतिलमिति, गरादिस्याने च गरमिति संज्ञा श्रूयते इति ज्ञेयं । तिथिष्व नियताखेतान्यावर्त्तन्ते यथाक्रमम् । शुक्लपक्षे प्रतिपदः, पश्चिमा वयं भवेत् ॥ ६७ ॥ द्वितीयायाश्चादिमेऽर्द्ध, बालवं कौलव
। तृतीयायाचादिमे, भवति स्त्रीविलोचनम् ॥ ६८ ॥ अपरार्द्ध तृतीयाया, गरादिकरणं भवेत् । चतुर्थ्याः प्रथमेऽद्वै स्वाद्वणिजं विष्टिरन्ति ॥ ६९ ॥ पुनर्थवं बालवं च पञ्चम्या अर्द्धयोर्द्वयोः । क्रमादर्द्धद्वये षष्ठ्याः, कौलवस्त्रीविलोचने ॥ ७० ॥ अर्द्धद्वये च सप्तम्या, गरादिवणिजे स्मृते । अष्टम्याः प्रथमेऽद्वै स्याद्विष्टिरन्त्ये
For Private & Personal Use Only
५
१०
१४
Inelibrary.org