________________
Jain Educat
जाता द्वाषष्टिरेषा च द्वाषष्ट्या प्रविभज्यते । लब्ध एकस्ततो जातोऽवमरात्रोऽयमादिमः ॥ २७ ॥ कदा पुनद्वितीयायां तृतीया पततीति च । प्रश्ने द्वितीयोद्दिष्टेति द्विको रूपाधिकस्त्रयः ॥ २८ ॥ ते च द्विगुणिताः षट् स्युर्द्वितीया यत्समा तिथिः । एकत्रिंशद्युताः षट् ते, सप्तत्रिंशद्भवन्ति तत् ॥ २९ ॥ ततश्च - सप्तत्रिंशसमे पर्वण्यतिक्रान्ते युगादितः । द्वितीयायां निपतिता, तृतीयेत्येष निर्णयः ॥ ३० ॥ पर्वसङ्ख्या चात्र सप्तत्रिंशत्पञ्चदशाहता । पञ्चपञ्चाशदधिका, शताः पञ्च भवन्त्यतः ॥ ३१ ॥ पतत्तिथिस्तृतीयेति त्रीणि तेषु विनिक्षिपेत् । अष्टपञ्चाशदधिका, जाता पञ्चशती ततः ॥ ३२ ॥ विभज्यतेऽसौ द्वाषष्ट्या, नव प्राप्तास्ततः खलु । नवमोऽवमरात्रोऽयं, जात इत्येष निर्णयः ॥ ३३ ॥ सर्वाखपि तिथिष्वेवं, कार्या करणभावना | पर्वनिदेशमात्रं तु, क्रियते नाममात्रतः ॥ ३४ ॥ तृतीयायां पतेत्तुर्या, गते पर्वण्यथाष्टमे । चतुर्थ्यां पञ्चमी चैकच| त्वारिंशत्तमे गते ॥ ३५ ॥ षष्ठी पतति पञ्चम्यां पर्वणि द्वादशे गते । षष्ठ्यां च सप्तमी पञ्चचत्वारिंशत्तमे गते ॥ ३६ ॥ सप्तम्यामष्टमी यायाद्याते पर्वणि षोडशे । अष्टम्यां नवमी चैकोनपञ्चाशत्तमे गते ॥ ३७ ॥ नवम्यां माति दशमी, द्राविंशतितमे गते । एकादशी दशम्यां च त्रिपञ्चाशत्तमे गते ॥ ३८ ॥ एकादश्यां द्वादशी च, चतुर्विंशतिसङ्ख्यके । तस्यां त्रयोदशी सप्तपञ्चाशत्सय के गते ॥ ३९ ॥ गतेऽष्टाविंशतितमे, त्रयोदश्यां चतुर्दशी । चतुर्दश्यां विशेद्राका, चैकषष्टितमे गते ॥ ४० ॥ गते द्वात्रिंशत्तमेऽमावास्यायां प्रतिपदिशेत् । एता युगस्य पूर्वार्द्धे, परार्द्धेऽप्येवमेव ताः ॥ ४१ ॥ राकायां च प्रतिपदो, भूतेष्टायाममातिथेः । संपातसंभवो
ational
For Private & Personal Use Only
१०
१४
w.jainelibrary.org