SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कषष्टिरहोरात्रा ऽभीष्टतिथिर्विवक्षितदिने भवेत् । उदाहरणमस्याथ, करणस्य निशम्यताम् ॥ ७७॥ युगस्य प्रथमे चन्द्रवर्षे मासे तथाऽऽश्विने । कियन्माना भवेच्छुक्लपञ्चमीत्यत्र कथ्यते ॥७८॥ तिथिराशिर्भवत्येतत्पञ्चम्यन्नो युगादितः। अशीतिसंख्यो द्वाषष्ट्या, भक्तेऽसिन्नेक आप्यते ॥७९॥ स च त्याज्यः शेषमष्टादश तान् परिताडयेत् । एकषष्ट्या स्यात्ततोऽष्टानवत्याढ्यं सहस्रकम् ॥ ८॥ द्वाषष्ट्याऽस्मिन् हृते लब्धं, त्यक्तं शेषमिह स्थितम् ।। 18 द्वाषष्ट्यंशाश्चतुश्चत्वारिंशदित्येष निर्णयः ॥ ८१॥ युगस्याये चन्द्रवर्षे, धवलाश्विनपञ्चमी । चतुश्चत्वारिंशद-1 शमानाऽस्तीत्यत्र भावना ॥ ८२॥ अत्र चेयं वासना-द्वाषष्ट्या हि तिथिभिः परिपूर्णा एकषष्टिरहो भवन्ति, ततः परिपूर्णाहोरात्रपातनाथं द्वाषष्ट्या ईप्सिततिथिराशेर्विभागः क्रियते, विभागे च कृते यच्छेषमुपलभ्यते तद्यदेकषष्टिगुणं क्रियते तद् एकैकस्यास्तिथेषष्टिभागीकृताहोरात्रसत्कैकषष्टिभागप्रमाणवा-1 दिति ज्ञेयं ॥ | युगेऽथावमरात्राणां, स्वल्पं किश्चिदुच्यते । भवन्ति ते च षड् वर्षे, तथा त्रिंशद्युगेऽखिले ॥ ८३ ॥ एकैकस्मिन्नहोरात्रे, एको द्वाषष्टिकल्पितः । लभ्यतेऽवमरात्रांश, एकवृद्ध्या यथोत्तरम् ॥ ८४ ॥ कर्ममासे ततः पूर्णे, त्रिंशद् द्वाषष्टिजा लवाः । लभ्यन्तेऽवमरावस्य, तत एवोच्यते बुधैः॥ ८५ ॥ विश्लेषे विहिते येऽशाः, शेषाः कर्मेन्दुमासयोः । त्रिंशद् द्वाषष्टिजाः कर्ममासस्यैतेऽवमांशकाः ॥ ८६ ॥ उक्तं च-चंदउडूमासाणं अंसा जे II दिस्सए विसेसंमि । ते ओमरत्तभागा भवंति मासस्स नायबा ॥ ८७॥" कर्ममासद्वये पूर्णे, ततः षष्टिदि Jain Educat onal For Private & Personal Use Only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy