________________
लोकप्रकाशेदर्कोदयादोंदयावधि । द्वाषष्टितमभागोनाहोरात्रप्रमिता तिथिः ॥ ६२॥ इत्यादिभिर्विशेषैः स्यादहोरात्रा- अहोरात्रतिकालनिरू-त्पृथक् तिथिः । विधात्वं च भवेत्तस्या, दिनरात्र्यंशकल्पनात् ॥ ६३ ॥ यद्वदेकोऽप्यहोरात्रः, सूर्यजातो द्विधा-शिविशेषः पणे कृतः। दिनरात्रिविभेदेन, संज्ञाभेदप्ररूपणात् ॥ ६४॥ तथैव तिथिरेकापि, शशिजाता द्विधा कृता। दिनरा
त्रिविभेदेन, संज्ञाभेदप्ररूपणात् ॥ ६५ ॥ एकैकस्यास्तिथेः कालमानमेवं प्रकीर्तितम् । मुहूर्तानां त्रिंशदेकन्यू-18 ॥३९७॥TOR निभागास्तथोपरि ॥६६॥ स्युर्द्वात्रिंशन्मुहूर्तस्यैकस्य द्वाषष्टिकल्पिताः । अस्योत्पत्तिः कथमिति , श्रद्धा चेत् ॥
श्रूयतां तदा ॥ ६७॥ अहोरात्रस्य भागा द्वापष्टिभागीकृतस्य हि । एकषष्टिस्तिथेर्मानमेकैकस्य यदीरितम् | २० ॥ ३८ ॥ द्वाषष्टिजांशरूपैकषष्टिस्तत्रिंशता हता। अहोरात्रमुहूत्तैः स्यात्रिंशाष्टादशशत्यहो (१८३०) ॥६९॥ एते । चांशा द्वाषष्ट्यंशीकृतसकलतिथिमुहूर्तानाम् । सन्तीति द्वाषष्ट्या मुहूर्त्तकरणाय भजनीयाः ॥ ७० ॥ (आर्या ) ततो मुहर्ता एकोनत्रिंशद् द्वात्रिंशदंशकाः। द्वापष्टिजा मुहूर्तस्यागतास्तैश्च तिथेर्मितिः ॥७१ ॥ शकालेन चेयता पञ्चदशांशश्चतुरंशकः । द्वाषष्ट्यंशीकृतस्येन्दोहीयते वर्द्धते तथा ॥७२॥ ततश्च-यत्तिथिश्चन्द्रजेत्युक्तं, तदप्येवं विनिश्चितम् । इन्दोः पञ्चदशांशस्य, हानिवृद्ध्यनुवर्तनात् ॥७३॥ इति तिथिमाननिरूपणं॥ २५ सांप्रतं चेप्सितदिने, क्रियन्मानेप्सिता तिथिः । इति ज्ञानाय करणं, यथाशास्त्रं निरूप्यते ॥ ७४ ॥ | ॥३९७॥ अभीष्टतिथिपर्यन्तस्थितिराशियुगादितः । द्वाषष्ट्या हियते लब्धं, त्याज्यं शेषं तु यत्स्थितम् ॥ ७५ ॥ तदेक-18 षष्ट्या गुणितं, द्वाषष्ट्या प्रविभज्यते । लब्धमत्रापि च त्याज्यं, शेषास्तिष्ठन्ति ये लवाः॥७६ ॥ तावन्माना- २८
Jain Education anal
Trol
For Private & Personal Use Only
nelibrary.org