SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education तुच्छाया स्मृताः ॥ ५२ ॥ पञ्चमी दशमी पञ्चदशी पूर्णाभिधा इमाः । अहस्तिथीनां नामानि ज्ञेयान्येवं यथाक्रमम् ॥ ५३ ॥ उग्रवती भोगवती, तृतीया च यशोमती । सर्वसिद्धा शुभानामा, पञ्चैतास्तिश्रयस्त्रिशः | ॥ ५४ ॥ अयं भावः - उग्रवत्यभिधानेन, नन्दातिथिनिशातिथिः । भद्रातिथीनां रजनीतिथिभगवतीति च ॥ ५५ ॥ यशोमतीति च ज्ञेया, जयानां यामिनीतिथिः । तुच्छा रात्रितिथिर्ज्ञेया, सर्वसिद्धेति नामतः ॥ ५६ ॥ शुभनामा भवेत्पूर्णा, तिथी रात्रितिथिः स्फुटम् । एवं पश्चदश ज्ञेया, रजनीतिथयो बुधैः ॥ ५७ ॥ एषां पञ्चदशानां तिथीनां खामिनचैवं लौकिकशास्त्रेषु निरूपिता:- तिथिपाञ्चतुर्मुख १ विधातृ २ विष्णवो ३, यन ४ शीतदीधिति ५ विशाख ६ वज्रिणः ७ । वसु ८ नाग ९ धर्म १० शिव ११ तिग्मरश्मयो १२, मदनः १३ कलि १४ स्तदनु विश्व १५ इत्यपि ॥ ५८ ॥ तिथौ हि दर्शसंज्ञके, पितृनुशन्त्यधीश्वरान् । त्रयोदशी तृतीययोः, | स्मृतस्तु वितपोऽपरैः ॥ ५९ ॥ मतान्तरे च - वह्नि १ विरचो २ गिरिजा ३ गणेशः ४, फणी ५ विशाखो ६ दिनकृन् ७ महेशः ८ | दुर्गा ९ न्तको १० विश्व ११ हरि १२ स्मराश्च १३, शर्वः १४ शशी १५ चेति पुराणदृष्टाः ॥ ६० ॥ एषां देवानां प्रतिष्ठादौ च तत्ततिथीनामुपयोगः, जिनस्य तु प्रतिष्ठादौ सर्वेऽपि तिथिनक्षत्रकरणक्षणाः शुद्धत्वे सत्युपयोगिन एव तस्य सर्वदेवाधिदेवत्वादित्याद्यारम्भसिद्धिवार्त्तिके ॥ अहोरात्रतिथीनां च, विशेषोऽयमुदीरितः । भानूत्पन्ना अहोरात्रास्तिथयः पुनरिन्दुजाः ॥ ६१ ॥ उक्तं च- "रस्त गगणमंडलविभागनिष्फाइया अहोरत्ता । चंदस्स हाणिबुडीकएण निष्फजए उ तिही ॥ १ ॥ " किंच - अहोरात्रो भवे For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy