SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कालनिरू पणे ॥३६९॥ Jain Educatio प्रोक्तं यदागमे ॥ १२ ॥ तद्यथा - "किमिदं भंते ! कालेति पञ्चति ?, गो० ! जीवा चेव अजीवा चेव"न्ति, अत्र द्रच्याभेदवर्त्तिवर्त्तनादिविवक्षया । कालोऽपि वर्त्तनाद्यात्मा, जीवाजीवतयोदितः ॥ १३ ॥ वर्त्तनायाच पर्याया, एवेति प्राग् विनिश्चितम् । तद्वर्त्तनादिसंपन्नः, कालो द्रव्यं भवेत्कथम् ॥ १४ ॥ पर्यायाणां हि द्रव्यत्वेऽनवस्थाऽपि प्रसज्यते । पर्यायरूपस्तत्कालः, पृथग द्रव्यं न संभवेत् ॥ १५ ॥ इत्थं चैतदुरीकार्य, वर्त्तनाद्यात्मकोऽन्यथा । कालास्तिकायः स्वीकार्यो, भवेद्वयोमेव सर्वगः ॥ १६ ॥ न चादिष्टादिष्टं तत्, सिद्धान्ते यत्पुनः पुनः । पञ्चास्तिकाया एवोक्ताः, कालो द्रव्यं पृथक् न तत् ॥ १७ ॥ परे त्वाहुः समद्रव्यप्रवर्त्ती वर्त्तनादिकः । पर्यायः कालनामा मा, पृथग द्रव्यं भवत्वहो ॥ १८ ॥ किंतु योऽर्कादिचाराभिव्यङ्गयो वृक्षेत्रमध्यगः । कालो न स्यात्कथं कार्यानुमेयः परमाणुवत् १ ॥१९॥ यच्छुद्धपदवाच्यं तत्, सदित्यनुमितेरपि । षष्ठं द्रव्यं दधत् सिद्धिं । कालाख्यं को निवारयेत् ? ॥ २० ॥ कालद्रव्ये चासति तद्विशेषाः समयादयः । कथं नु स्युर्विशेषा हि सामान्यानुचराः खलु ॥ २१ ॥ समयाद्याश्च कालस्य, विशेषाः सर्वसंमताः । जगत्प्रसिद्धाः संसिद्धाः सिद्धान्तादिप्रमाणतः ॥ २२ ॥ किंच - सहैव स्यात्किसलयकलिकाफलसंभवः । एषां नियाम के कालरूपे द्रव्येऽसति क्षितौ ॥ २३ ॥ बालो मृदुतनुदप्रदेहश्च तरुणः पुमान् । जीर्णाङ्गः स्थविरश्चेति, विना कालं दशाः कथम् ? ॥ २४ ॥ ऋतूनामपि षण्णां यः, परिणामोऽस्त्यनेकधा । न संभवेत्सोऽपि कालं, | विनाऽतिविदितः क्षितौ ॥ २५ ॥ तथाहि - हिमातिपाताद्धेमन्ते, प्रत्यग्नि शलभा इव । कम्प्रकाया रणद्दन्ताः, tional For Private & Personal Use Only कालस्य पृ थद्रव्यता निरासः २० २५ ॥३६९॥ २७ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy