SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विधीयते । रूपोना क्रियते द्वाभ्यां, गुण्यते च ततः पुनः ॥६५॥ द्विः स्थाप्यतेऽथ चैकस्याः, कृतेऽर्दै ज्ञायते | सुखम् । युगातीतपर्वयुक्ताभीष्टतौरन्तिमा तिथिः॥६६॥ यथा युगे तिथौ कस्यां, प्रथमर्तुः समाप्यते ? |इति प्रश्ने ऋतुसंख्यककः स द्विगुणीकृतः॥ ६७॥ द्वौ स्यातां तौ च रूपोनावेकः स द्विगुणः पुनः । द्वावेव तो द्विः स्थाप्येते, एकत्रार्द्धं कृते पुनः ॥ ६८ ॥ एकोऽवशिष्ट एवं च, द्विपर्वातिक्रमे युगे । ऋतुरायः प्रतिपदि, संपूर्णः प्रथमे तिथौ॥६९॥जिज्ञासिते द्वितीयत्तौं, दावेव द्विगुणीकृतौ । जाताश्चत्वार एकोनास्त्रयस्ते द्विगुणी-14 कृताः ॥ ७० ॥ जाताः षट् ते स्थापिता द्विरेकत्र चार्द्धितास्त्रयः । अन्यत्र तु षडेव स्युस्तदेवं प्रश्ननिर्णयः॥७॥ युगादितः षट् पर्वाणि, व्यतीत्यर्तुर्द्वितीयकः । तृतीयार ऋतौ जिज्ञासिते त्रिंशद द्विताडिता । षष्टिः स्यादथ सैकोनषष्टी रूपोज्झिता भवेत् ॥७३॥ भूयः सा द्विगुणा जातमष्टादशोत्तरं शतम् । द्विः संस्थाप्य च तस्याद्धे, कृत एकत्र शिष्यते ॥ ७४ ॥ एकोनषष्टिरित्येवं, विवक्षितविनिश्चयः। अष्टादशोत्तरे पर्वशतेऽतीते युगादितः॥७९॥ एकोनषष्टितमायां, तिथौ संपूर्णतां दधौ । ऋतुस्त्रिंशत्तम इति, ज्ञेयं तत्त्वमिदं विह ॥ ७६ ॥ एकोनषष्टिस्तिथयः, स्युरित्येकोनषष्टिका। ह्रियते पञ्चदशभिः, स्याच्छेषाङ्कसमा तिथिः ॥७७ ॥ ततश्च-युगस्य पञ्चमे वर्षे, आषाढे प्रथमेऽस्य च । 81 पूर्णः शुक्लचतुर्दश्यामृतुस्त्रिंशत्तमोऽन्तिमः ॥ ७८ ॥, अथ चन्द्र खरूपमुच्यते-सर्वःभोगो नक्षत्रपर्याय इति कथ्यते । ते च भानोर्युगे पञ्च, सप्तषष्टिर्निशा Jain Educa ainelibrary.org t For Private Personal Use Only ional
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy