________________
लो. प्र. ६७
Jain Education
आषाढशुक्लाष्टम्यां च द्वादशः परिपूर्यते ॥ ४२ ॥ त्रयोदशो भाद्रपदशम्यां विशदत्विषि । चतुर्दश: कार्त्ति कीकद्वादश्यां धवलतौ ॥ ४३ ॥ पौषश्वेतचतुर्दश्यां पूति पञ्चदशोऽश्रुते । वलक्षपक्षप्राप्तान्ताः सप्तामी ऋतवः स्मृताः ॥ ४४ ॥ ऋतवोऽमी पश्चदश, युग पूर्वार्द्ध भाविनः । इतः पञ्चदशोच्यन्ते, युगपश्चार्द्ध भाविनः ॥ ४५ ॥ फाल्गुनस्य प्रतिपदि श्यामायामथ षोडशः । राधकृष्ण तृतीयायामन्तं सप्तदशोऽञ्चति ॥ ४६ ॥ आषाढासितपञ्चम्यामन्तमष्टादशो भजेत् । भाद्रानुज्वलसप्तम्यां पूर्यतेऽष्टादशाग्रिमः ॥ ४७ ॥ कार्त्तिके विंशतितमो, नवम्यां मेचकद्युतौ । पौषस्य कृष्णैकादश्यामेकविंशतिसङ्ख्यकः ॥ ४८ ॥ फाल्गुनस्य त्रयोदश्यां द्वाविंशः श्यामलत्विषि । स त्रयोविंशतितमो, राधाऽमायां प्रपूयेत ॥ ४९ ॥ अष्टाप्यमी कृष्णपक्षप्राप्तान्ताः पूर्यतेऽथ च । शुचिशुक्लद्वितीयायां चतुर्विंशतिपूरणः ॥ ५० ॥ भाद्रस्य श्वेततुर्यायां पञ्चविंशः प्रपूर्यते । षड्विंशतितमः षष्ठ्यां, शुभ्रायां कार्त्तिकस्य तु ॥ ५१ ॥ स सप्तविंशतितमः पौषाष्टम्यां सितद्युतौ । दशम्यां फाल्गुने श्वेतत्विष्यष्टाविंशतिप्रमः ॥ ५२ ॥ द्वादश्यां राध एकोनत्रिंशत्तमः सितत्विषौ । शुचिशुक्लचतुर्दश्यां, पूर्ति त्रिंशत्तमोऽनुते ॥ ५३ ॥ त्रिंशदप्येवमृतवः प्रोक्ताः प्राप्तसमाप्तयः । एकान्तरेषु मासेषु तिथिष्वेकान्तराखिति ॥ ५४ ॥ किञ्च - कर्ममासात्सूर्यमासेऽहोरात्रार्द्ध यदेधते । ऋतौ द्विभानुमासोत्थेऽहोरात्रो वर्द्धते ततः ॥ ५५ ॥ ततश्च - कर्ममासद्वये षष्टिरहोरात्रा भवन्ति वै । सूर्यमासद्वयात्म तुस्त्वेक प्रष्टिदिनात्मकः ॥ ५६ ॥ द्विकर्ममा सापेक्षस्तद्भवेदृतुमृतुं प्रति । अहोरात्रः समधिकञ्चतुर्मास्यां तु तद्द्वयम् ॥ ५७ ॥ वर्षाशी
atonal
For Private & Personal Use Only
,
५
१०
१४
ainelibrary.org