________________
लोकप्रकाशे कालनिरू
पणे
॥ ३९२ ॥
Jain Education
दश स्थिता इति । आगतं द्वावृतू यातौ तृतीयो वर्त्ततेऽधुना ॥ २७ ॥ वर्त्तमानस्य तस्यैकादश जग्मुर्दिना इति । द्वादशोऽस्त्यधुना घस्त्र, इति प्रश्नस्य निर्णयः ॥ २८ ॥ यद्वाऽक्षयतृतीयायामाद्यायां यदि पृच्छति । तदा पञ्चदशन्नानि, पर्वाण्येकोनविंशतिः ॥ २९ ॥ पञ्चाशीत्या समधिकं ततो जातं शतद्वयम् (२८५) । तृतीयायां पृष्टमिति, क्षिष्यन्ते तिथयस्त्रयः ॥ ३० ॥ साष्टाशीति शतद्वन्द्वं (२८८), जज्ञेऽथावमरात्रकैः । पञ्चभिस्त्यक्तमेतत् स्यात् सत्र्यशीति शतद्वयं ( २८३) ॥ ३१ ॥ अस्मिन् द्विगुणिते पञ्चशती षट्षष्टियुग्भवेत् । सैकषष्टिरियं सप्तविंशा भवति षट्शती (६२७ ) ॥ ३२ ॥ द्वाविंशेन शतेनास्या १२२, भागे पञ्चकमाप्यते । उद्धरन्ति सप्तदश, स्युः सार्द्धा अष्ट तेऽर्द्धिताः ॥ ३३ ॥ पञ्चर्त्तवस्ततोऽतीताः, षष्ठोऽसौ वर्त्ततेऽधुना । अष्टौ जग्मुदिनान्यस्याधुना नवममस्ति च ॥ ३४ ॥ त्रिंशतोऽपि युगर्त्तृनां पूर्त्तेर्मासांस्तिथीनपि । पक्षांच कृष्णशुक्लाख्यान् ब्रूमोऽथ समयोदितान् ॥ ३५ ॥ आयो भाद्रपदश्यामप्रतिपद्यन्तमश्रुते । कार्त्तिकस्य तृतीयायां, कृष्ण| पक्षे द्वितीयकः ॥ ३६ ॥ पौषस्य कृष्णपञ्चम्यां तृतीयः पूर्त्तिमश्रुते । फाल्गुनश्यामसप्तम्यां पूर्यते च तुरीयकः ॥ ३७ ॥ राधेश्यामनवम्यां च पञ्चमः परिपूर्यते । शुचेरशुभ्रैकादश्यां षष्ठः पूर्णो भवेदृतुः ॥ ३८ ॥ पूर्णो भाद्रपदश्यामत्रयोदश्यां च सप्तमः । अभावास्यां कार्त्तिकस्य, पूर्णा भवति चाष्टमः ॥ ३९ ॥ एते यथोक्तमासेषु, कृष्णपक्षेऽन्तमाप्नुयुः । ऋतवोऽष्टापि तीर्थेशैरित्युक्तं सर्वदर्शिभिः ॥ ४० ॥ पौषशुक्ल द्वितीयायां, नवमर्त्तुः समाप्यते । फाल्गुनश्वेततुर्यायां, दशमोन्तं प्रपद्यते ॥ ४१ ॥ एकादशोऽन्तं वैशाख शुक्ल षष्ठयां बिभर्त्त्यथ ।
tional
For Private & Personal Use Only
ऋतुप्रारंभ • तिथयः
२०
२५
॥ ३९२ ॥
२८
lainelibrary.org