SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे शषष्ठ्यां तिथौ तद्विषुवमेवं सर्वत्र भाव्यताम् ॥ ९८ ॥ पञ्चापि विषुवन्त्यकः, कुर्याद्याम्यायनस्थितः । खातेन-चन्द्रयायकालनिरू- क्षत्रस्य भुक्त्वा, त्रयोविंशतिमंशकान् ॥ ९९ ॥ अंशाश्चात्र चतुस्त्रिंशदधिकशतच्छिन्नरूपस्य ज्ञेयाः । पश्चापि नानि चन्द्र विषुवन्त्यर्कः, कुर्यात्सौम्यायनस्थितः । एकोनसप्ततिं भागानश्चिन्या अवगाह्य च ॥६००॥इति विषुवत्प्रकरणं॥ सूर्यर्तवः I अयनानां चतुस्त्रिंशं, शतं शीतयुतेर्युगे । तत्रोत्तरायणानि स्युः, सप्तषष्टियुगे युगे ॥ १॥ सप्तषष्टिरेव याम्यायनान्येकान्तराण्यथ । प्रागुत्तरायणं पश्चाद्याम्यायनमिति क्रमः ॥ २॥ ततश्च-या नक्षत्रार्द्धमासेनैवोत्तराभिमुखा विधोः । आवृत्तयस्ताः सर्वाः स्युरभिजित्प्रथमक्षणे ॥३॥ भमासार्द्धनाथ पुनर्दक्षिणाभिमुखा 8 २० विधुः। आवृत्तीः कुरुते पुष्ययोगं प्राप्याखिला अपि ॥४॥ तत्रापि-मुहूर्तदशकं भुक्त्वा, विधुर्भागांश्च विंशतिम् । पुष्यस्य सप्तषष्ट्युत्थान् , याम्यावृत्तीः प्रपद्यते ॥५॥ इत्ययनप्रकरणं समाप्तम् ।। __ ब्रूमः षण्णामथानां, खरूपं किञ्चिदागमात् । सूर्यसंबन्धिनस्ते स्युश्चन्द्रसंबन्धिनोऽपि च ॥६॥ सार्दास्त्रिंशदहोरात्रा, एको मासो विवस्वतः। ताभ्यां द्वाभ्यामहोरात्रा, एकषष्टिर्ऋतू रवेः॥ ७॥ ऋतुः प्रावृड् भवे. दाद्यो, वर्षाराम्रो दितीयकः। शरदास्यस्तृतीयः स्यात्तुर्यो हेमन्तसंज्ञकः॥८॥ वसन्तः पश्चमः ख्यातः, २५ षष्ठो ग्रीष्मः प्रकीर्तितः। षडेते ऋतवः ख्याता, युगे त्रिंशद्भवन्ति ते ॥९॥ उक्तं च ज्योतिष्करण्डके- ३ "पाउस वासारत्तो सरओ हेमंत वसंत गिम्हा य । एए खलु छप्पि उऊ जिणवरदिट्ठा मए सिट्ठा ॥१०॥" प्रथमाषाढराकायाः, प्रारभ्यैषामुपक्रमः। भवन्ति त्रिंशतभिश्च, यथोक्ता युगवासराः १८३०॥ ११॥ दावा Jain Education For Private Personal use only ALnelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy