________________
मुल्लड़य, नवम्यां सप्तमं पुनः । मघासु मघवत्पूज्यैर्विषुवं कथितं जिनैः॥ ८४ ॥ अतिक्रम्य द्विनवति, पर्वाण्यष्टममीरितम् । अश्विनीनाम्नि नक्षत्रे, पञ्चदश्यां तथा तिथौ ॥८५॥ पश्चाधिकं पर्वशतं, व्यतीत्य नवमं जिनः । स्यादाषाढासूत्तरासु, तिथौ षष्ठ्यामितीरितम् ॥८६॥ अतिक्रम्य तथा पर्वशतं सप्तदशाधिकम् ।
उत्तरासु फाल्गुनीषु, द्वादश्यां दशमं भवेत् ॥ ८७ ॥ अत्रेयं वासना-विषुवं स्यात्ततीयायां, षट्पातिक्रमेISSग्रिमे । ततो यथोत्तरं योज्याः, षट् तिथ्यके विचक्षणैः ॥ ८८॥ द्वितीयादिविषुवतामित्येवं लभ्यते तिथिः ।
षट्सु क्षिप्तेषु चेत्सङ्ख्या, भवेत्पश्चदशाधिका ॥ ८९॥ तदैकं पर्व पर्वाङ्के, क्षिप्वा पञ्चदशात्मकम् । शेषाङ्कममिता विज्ञैर्विज्ञेया विषुवत्तिथिः॥९०॥ अथात्र करणं निरूप्यते-द्विगुणेष्टविषुवसङ्ख्या रूपोना षड्गुणा च पर्व. मितिम् । वक्ति तथा पर्याङ्को दलीकृतस्त्वाह विषुवतिथिम् ॥ ९१ ॥ (आर्या) पर्वाङ्काई पश्चदशाधिकंतु तिथिभिर्भजेत्। पर्वाङ्केष्वागतं दद्याच्छेषाङ्कान्निर्णयत्तिथिम् ॥९२॥ तथाहि-युगेविषुवमाद्यं स्यात्कतिपर्वव्यति!क्रमे । कस्यां तिथाविति प्रश्ने करणं भावयेदिति ॥ ९३ ॥ आद्यं विषुवदित्येको, द्विनो रूपोनितः पुनः एकः स षड्गुणः षट्कः, पर्वाङ्कः सोऽर्द्धितस्तिथिः ॥ ९४ ॥ एवं च-षट्सु पर्वखतीतेषु, युगे विषुवमादि-31 मम् । तृतीयायां तिथावेवं, चतुर्थमथ भाव्यते ॥ ९५॥ तद्यथा-विघ्नश्चतुष्को रूपोनः, सप्त स्युस्ते च षड्गुणाः । द्वाचत्वारिंशद्भवन्ति, तेऽर्द्धितास्त्वेकविंशतिः ॥९६॥ अधिका पञ्चदशाङ्कादियं तद्भज्यतेऽथ तैः (१५)।। पर्वखेकं क्षिपेल्लब्धं, शेषाः षट् तिथिसूचकाः ॥ ९७ ॥ ततश्च-स्यात्पर्व त्रिचत्वारिंशत्यतीतेष्वथो युगे ।।१४
१
Jain Education
Etional
For Private Personel Use Only
M
ainelibrary.org