SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सत्या समधिकमेवं जातं शतत्रयम् ॥ ५६ ॥ हृतेऽस्मिन् पञ्चदशभिश्चतुवैिशतिराप्यते । त्रयोदशावशिष्यन्ते, तदेष प्रश्ननिर्णयः ॥ ५७ ॥ चतुर्विंशतिपक्षातिक्रमे तीर्थेश्वरैर्युगे । नभःकृष्ण त्रयोदश्यां तृतीयाऽऽवृत्तिरीरिता ॥ ५८ ॥ एवमन्याखपि तिथिषु करणभावना कार्या, आवृत्तिनक्षत्रज्ञानमुद्दिश्य करणं त्वतिविस्तर - मिति नात्र प्रपञ्चितं, तज्ज्योतिष्करण्डवृत्त्यादिभ्योऽवसेयं, अत्र वासना चैवं - आवृत्तिघस्रादेकस्मादावृत्तिरपरा भवेत् । दिने चतुरशीत्याट्यशततमे यथाक्रमम् ॥ ५९ ॥ सम्यशीतिदिनशतमानमेकं यतोऽयनम् । समाप्यारभ्यते नव्यायनं घस्त्रे ततोऽग्रिमे ॥ ६० ॥ नभः कृष्णप्रतिपदो, माघस्य श्यामसप्तमी । भवेच्चतुर शीत्याढ्यशततम्येव तद्यथा ॥ ६१ ॥ षण्णां मासामहोरात्राः स्युरशीतियुतं शतम् । माघस्य सप्ताहानीति, सप्ताशीतियुतं शतम् ॥ ६२ ॥ एभ्यस्त्रयोऽवमरात्राः, पात्यन्ते मासपङ्कजाः । ततश्चतुरशीत्याख्यं शतमेव व्यवस्थितम् ॥ ६३ ॥ तत्र च - सन्यशीतिदिनशतमानमेकं किलायनम् । षष्ट्यां पूर्ण पुनश्चान्यत्ससम्यां प्रत्यपद्यत ॥ ६४ ॥ एवं च - माघस्य श्यामससम्या, द्वादशी नभसोऽसिता । सम्यशीतिशततमी, पूर्णं तत्र ततोऽयनम् ॥ ६५ ॥ त्रयोदश्यां च संप्राप्तं, भूयोऽपि दक्षिणायनम् । एवमावृत्तितिथिषु, कार्याऽन्याखपि भावना ॥ ६६ ॥ इन्दुभोग्यो संयोगः, प्रागुक्तस्तिथिभिः सह । वक्ष्येऽर्क भोग्यनक्षत्राण्यावृत्तिषु दशस्वथ ॥ ६७ ॥ | आवृत्ती: श्रावणे पञ्चाप्यादित्यः कुरुते युगे । पुष्ययुक्तो बहिर्गच्छन्, सर्वाभ्यन्तरमण्डलात् ॥ ६८ ॥ अष्टादशमुहूर्त्ताढ्य महोरात्रचतुष्टयम् । पुष्यस्य भुक्त्वाऽर्कः सर्वा, आवृत्ती: श्रावणे सृजेत् ॥ ६९ ॥ अभ्यन्तरं Jain Educationmational For Private & Personal Use Only १० १४ v.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy