SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कालनिरूपणे ॥ ३८९ ॥ वित्यूह्यते यदि । तत्प्रस्तुतेयं प्रथमावृत्तिरित्येकको घृतः ॥ ४१ ॥ अस्मिंश्चैको निते शेषः कश्चिदङ्को न तिष्ठति । तत्पाश्चात्ययुगावृत्तिर्दशमी प्रियतेऽन्तिमा ॥ ४२ ॥ ततख्यशीत्याऽभ्यधिकं दशभिर्गुण्यते शतम् । त्रिंशान्येवं शतान्यष्टादश (१८३० ) जातान्यतः परम् ॥ ४३ ॥ दशभिर्गुणितं यस्मात्सत्र्यशीतिशतं ततः । दश त्रिघ्नाः सैकरूपाञ्चैकत्रिंशद्भवन्ति ये ॥ ४४ ॥ ते पूर्वराशौ क्षिप्यन्ते, एकषष्ट्यधिका ततः । अष्टादशशती जाता (१८६१ ) तां पञ्चदशभिर्भजेत् ॥ ४५ ॥ चतुर्विंशं शतं लब्धमेकं रूपं च शिष्यते । जिज्ञासिताया आवृत्तेस्ततोऽभूदिति निर्णयः ॥ ४६ ॥ चतुर्विंशपर्वशतात्मके प्राच्ययुगे गते । प्रवर्त्तमानेऽभिनवे, युगस्य प्रथमे तिथौ ॥ ४७ ॥ आधाssवृत्तिः प्रतिपदि भवतीत्यथ कथ्यते । द्वितीयोऽप्यत्र दृष्टान्तो, बोधदाय धीमताम् ॥ ४८ ॥ कस्यां तिथौ द्वितीया स्यादावृत्तिर्माधभाविनी । इति प्रश्ने कृते धार्य, आवृत्यको द्विकस्तदा ॥ ४९ ॥ अस्मिन्नङ्के चैककोने, एक एवावशिष्यते । सम्यशीतिशतं तेन, गुण्यते स्यात्तथा स्थितम् ॥ ५० ॥ एकोन गुणकस्त्रिघ्नः, सैको जातश्चतुष्टयम् । एतद्युक्तोऽभवद्राशिः, सप्ताशीतियुतं शतम् ॥ ५१ ॥ भागेऽस्य पञ्चदशभिर्लभ्यन्ते द्वादशोपरि । शिष्यन्ते सप्त तेनैष, पूर्वोक्तप्रश्ननिर्णयः ॥ ५२ ॥ स्याद् द्वितीया द्वादशानां, विगमे युगपर्वणाम् । माघस्य श्यामसप्तम्यामावृत्तिस्तिग्मरोचिषः ॥ ५३ ॥ कस्यां तिथौ स्यादावृत्तिस्तृतीयेतीष्यते यदि । तदा धृतत्त्रिको रूपोनितेऽस्मिन् शिष्यते द्विकः ॥ ५४ ॥ सम्यशीतिशतं तेन, गुणितं जायते किल । शतत्रयं सषट्षष्टि, द्विकेऽथ त्रिगुणीकृते ॥ ५५ ॥ सैके जाताः सप्त ते च, पूर्वराशौ नियोजिता । त्रिस Jain Education nonal For Private & Personal Use Only आवृत्ति - तिथि: २० २५ ॥ ३८९ ॥ २८ inelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy