________________
Jain Education
नवशती पञ्चदशोपेताऽथ सन्ति ये । अष्टादश शतास्त्रिंशाः, सप्तषष्ट्यैव तेऽपि च ॥ २६ ॥ सवर्णनार्थं ताड्यन्ते, लक्षमेकं भवेत्ततः । द्वाविंशतिः सहस्राणि षट्शती च दशोत्तरा ॥ २७ ॥ अन्त्येन राशिनाऽथैवंरूपेण मध्यमो हतः । नूनमेकात्मको राशिर्गुणकेन समोऽभवत् ॥ २८ ॥ ततोऽस्मिन्नवभिः पञ्चदशोपेतैः शतैर्हते । चतुस्त्रिंशं शतं लब्धमयनानां युगे विधोः ॥ २९ ॥ अथायनारम्भरूपा, भवन्त्यावृत्तयो दश । तत्र स्युः श्रावणे पञ्च पञ्च माघे विवखतः ॥ ३० ॥ याम्यायनारम्भरूपाः, पञ्च ताः श्रावणे स्मृताः । तथोत्तरायणारम्भरूपा माघे च पञ्च ताः ॥ ३१ ॥ आद्यावृत्तिः श्रावणाद्यप्रतिपद्यभिजिद्युता । माघस्य श्यामसप्तम्यां द्वितीया हस्तसंयुता ॥ ३२ ॥ तृतीया स्यान्नभः कृष्ण त्रयोदश्यां मृगान्विता । चतुर्थी शुक्लतुर्यायां, माघे शत| भिषग्युता ॥ ३३ ॥ विशाखायुप्रभः श्वेतदशम्यां पञ्चमी भवेत् । षष्ठी माघे प्रतिपदि श्यामायां पुष्यशालिनी ॥ ३४ ॥ सप्तमी कृष्णसप्तम्यां श्रावणे रेवतीयुता । माघे कृष्णत्रयोदश्यामष्टमी मूलसंयुता ॥ ३५ ॥ नभश्चतुर्थ्या शुक्लायां, नवमी योनिदेवयुग । माघकृष्ण त्रयोदश्यां दशमी कृत्तिकाञ्चिता ॥ ३६ ॥ अथात्र करणं - विशिष्टतिथियुक्ता या, ह्यावृत्तिर्ज्ञातुमिष्यते । गुण्यते तत्सङ्ख्ययै कोनया व्यशीतियुक् शतम् ॥ ३७ ॥ अङ्कस्थानेन गुणितं येन व्यशीतियुक् शतम् । त्रिनं रूपेणाधिकं तद्राशौ जाते नियोजयेत् ॥ ३८ ॥ ततश्च पञ्चदशभिर्हते भागे यदाप्यते । गतेष्येतावत्सु पर्वस्त्रावृत्तिः सा विवक्षिता ॥ ३९ ॥ पश्चादुद्धरिता येऽङ्कास्तावत्सु दिवसेष्वथ । चरमे दिवसे विन्द्यादावृत्तिं तां विवक्षिताम् ॥ ४० ॥ आद्यावृत्तिर्युगे कस्यां तिथा
For Private & Personal Use Only
१०
१४
nelibrary.org