________________
लो. प्र. ६६ Jaig Education
प्रतिपत्तिर्दक्षिणोत्तरयोराचसमये तर्हि दक्षिणोत्तरप्रतिपत्तिसमये पूर्वापरयोः पूर्वकालस्या पर्यवसानं वाच्यं, पूर्वापर विदेहापेक्षयाऽस्त्येव तदिति चेत्सूर्ययोश्रीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तरसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादि भूयान् परवचनावकाश इत्यलं प्रसङ्गेनेति । वक्ष्यन्ते ये च कालांशाः, सुषमसुषमादयः । आरम्भं प्रतिपद्यन्ते, सर्वे तेऽपि युगादितः ॥७०॥ युगपर्यवसानेच, ते यान्ति परिपूर्णताम् । तस्मात्काल विशेषेषु, युगं प्रागुदितं जिनैः ॥७१॥ तदुक्तं ज्योतिष्करण्डके - " एए कालविभागा, पडिवते जुगंमि खलु सच्वे। पत्तेयं पत्तेयं जुगस्स अंते समर्पिति ॥७२||” ज्योतिष्करण्ड टीकाकाराः पादलिप्तसूरयोऽप्याहु:- "एए उ सुसमसुसमादयो अद्धाविसेसा जुगाइणा सह पवत्तंते जुगंतेण सह समप्पिति" ।
अथ वक्ष्ये प्रतियुगमयनानि यथाऽऽगमम् । आवृत्ती: सूर्यशशिनोस्तत्तिथीनुडुभिस्सह ॥ ७३ ॥ खरूपमृतुमासानां, तिथीनां चावमस्य च । नक्षत्राणि यथायोगमेतेषां करणान्यपि ॥ ७४ ॥ युगे युगेऽयनानि स्युर्भानोर्दश दश ध्रुवम् । तदेकै कमहोरात्र सञ्यशीतिशतात्मकम् ॥ ७५ ॥ प्रत्ययः क इहात्रेति, यदि शुश्रूष्यते त्वया । त्रैराशिकं तदाऽभेदं श्रूयतां मित्र ! दर्श्यते ॥ ७६ ॥ अष्टादश शतात्रिंशा, अयनैर्दशभिर्यदि । अहोरात्रास्तदैकेनायनेन किं लभामहे ? ॥ ७७ ॥ अत्रान्त्येनैकरूपेण, राशिना गुणितः स्थितः । तथैव मध्यमो राशिरेकेन गुणितं हि तत् ॥ ७८ ॥ ततो दशकरूपेण, हृतेऽस्मिन्नाथराशिना । अहोरात्रशतं लब्धं, सभ्यशीति यथोदितम् ॥ ७९ ॥ मण्डलानामपि शतं सत्यशीति चरेद्रविः । एकैकं प्रत्यहोरात्रं, पूरयन्नयनेऽयने
1
ational
For Private & Personal Use Only
१४
aihelibrary.org