SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ युगादिः लोकप्रकाशे कालनिरू- पणे ॥३८६॥ णासितपक्षस्य, तिथेः प्रतिपदोऽपि च । बालवस्य करणस्य, ऋक्षस्याभिजितस्तथा ॥ ६७ ॥ प्रथमे समये प्रोक्तो, युगारम्भश्चिदुत्तरैः । भरतैरावतमहाविदेहेषु समं जिनैः ॥ ६८॥ तथोक्तं ज्योतिष्करण्डे–“सावणबहुलपडिवए, बालवकरणे अभीइनक्खत्ते । सवत्थ पढमसमए जुगस्स आई वियाणाहि ॥ ६९॥” इदं तु वाल्लभ्यवाचनानुगतं ज्ञेयं, ज्योतिष्करण्डकालभ्यत्वात्, माथुरवाचनानुगतभगवत्यादिसूत्रेषु तु यस्मिन् समये मेरोदक्षिणोत्तरयोयुगस्य प्रतिपत्तिस्ततोऽनन्तरे द्वितीये समये मेरोः पूर्वापरयोर्युगस्य प्रतिपत्तिरित्यभिप्रायो दृश्यते, तथा च तद्ग्रन्थः-"जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्डे वासाणं पढमे समए पडिवजइ तया णं उत्तरडेवि वासाणं पढमे समए पडिवजइ, जयाणं उत्तरड्डे वासाणं पढमे समए पडिवजइ तया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमे समए पडिवजइ ?,8 तह चेव जाव पडिवजह,” एवं चावलिकादिसूत्रगर्भितं ऋतुत्रय सूत्रं अयनसूत्रं चाधीत्य 'जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणिअबो, जुएणवि वाससएणवि'इत्यादि भूयान् सूत्रसंदर्भो भगवतीसूत्रादर्शाहोध्यः, जम्बूद्वीपप्रज्ञप्तिसूत्रेऽपि इदमेव सूत्रं 'जहा पंचमसए पढमुद्देसए' इत्यतिदेशेन संगृहीतं बोद्धव्यं । अत्र च जम्बूद्वीपप्रज्ञप्तिवृत्तौ उ० श्रीशान्तिचन्द्रगणिभिरिहैवमुक्तं-"युक्त्यानुकूलं तुयुगपत्प्रतिपत्तिसमये संभाव- यामः,"तथाहि-सवे कालविसेसा, सूरपमाणेण हंति नायबा' इति वचनाद् यदि सूर्यचारविशेषेण कालविशेष। १ सव्वत्थेत्यस्य सर्वेषां भरतानां सर्वेषामैरावतानां ग्रहणे न मतभेदोऽत्र । ॥३८६॥ Jain Education a l For Private & Personel Use Only Einelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy