SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Educatio परिकीर्त्तितः । भुक्तशेषास्तदा तस्य मुहूर्त्ता एकविंशतिः ॥ २८ ॥ द्वाषष्टिजात्रयश्चत्वारिंशदंशा स्तथोपरि । तस्यांशस्य त्रयत्रिंशद्विभागाः सप्तषष्टिजाः ॥ २९ ॥ अत्र येऽर्कस्य नक्षत्रयोगे प्रोक्ता मुहूर्त्तकाः । ते भानुसत्का बोद्धव्या, विधोस्तु व्यावहारिकाः ॥ ३० ॥ आह च-- अहोरात्रस्य हि त्रिंशत्तमोऽंशो व्यावहारिकः । मुहूर्त्त इति जानीमः, किंरूपोऽसौ रवेः पुनः ॥ ३१ ॥ अत्रोच्यते - यत्संपूर्णमहोरात्रं, युज्यते भं हिमां| शुना । तस्य योगोऽभवद्यावत्कालमुष्णांशुना सह ॥ ३२ ॥ तस्य त्रिंशत्तमो भागो, यावान् जायेत निश्चितः । तावन्मानो मुहर्त्ताऽत्र, ज्ञेयो विज्ञैर्विवस्वतः ॥ ३३ ॥ स चायं - त्रयोदश मुहर्त्तानि, मुहूर्त्तस्यैककस्य च । कृतद्वाषष्टिभागस्य, चतुर्विंशतिरंशकाः ॥ ३४ ॥ द्वाषष्ट्यंशस्य चैकस्य, छिन्नस्य सप्तषष्टिधा । किंचित्समधिकाः | सार्द्धास्त्रिपञ्चाशद्विभागकाः || ३५ ॥ तथाहि – स्युर्द्वादशमुहूर्त्ताढ्या, अहोरात्रास्त्रयोदश । समक्षेत्राणामुडूनां, | योगकालो विवखतः ॥ ३६ ॥ त्रयोदशाहोरात्रा ये, मुहूर्त्तकरणाय ते । त्रिंशद्गुणीकृता जाता, नवत्याढ्या - शतत्रयी ॥ ३७ ॥ द्वादशानां मुहूर्त्तानां, शेषाणामत्र योजने । चतुःशती द्व्युत्तरा स्वात्रिंशता सा विभज्यते ॥ ३८ ॥ पूर्णास्त्रयोदश प्राप्ताः, शिष्यन्ते द्वादशाथ ते । द्वाषष्टिघ्नाश्चतुश्चत्वारिंशा सप्तशती भवेत् ॥ ३९ ॥ एतस्यास्त्रिंशता भागे, चतुर्विंशतिराप्यते । शेषा चतुर्विंशतिः सा, सप्तषष्ट्या हता भवेत् ॥ ४० ॥ अष्टाव्या षोडशशती, त्रिंशताऽसौ विभज्यते । प्राप्ताः सार्द्धास्त्रिपञ्चाशत्किञ्चित्समधिका इति ॥ ४१ ॥ इति सूर्यमुहर्त्तप्रमाणानयनोपायः ॥ तुल्यार्द्धसार्द्धक्षेत्रोडुपूक्तमाना मुहूर्त्तकाः । त्रिंशत्पश्चदश पञ्चचत्वारिंशत्स्युरुष्णगाः For Private & Personal Use Only ational १० १४ Jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy