________________
लोकप्रकाशे कालनिरू
पणे
॥ ३८५ ॥
Jain Education
॥ ४२ ॥ तैश्च त्रयोदश दिना, सद्वादशमुहूर्त्तकाः । तथा स्युः षडहोरात्रा, मुहूर्त्ताश्चैकविंशतिः ॥ ४३ ॥ अहोरात्रा विंशतिश्च मुहूर्त्तत्रितयाधिकाः । क्रमात्रैधेषु भेष्वर्क भोगः स्याद्व्यावहारिकः ॥ ४४ ॥ अष्टादश शतास्त्रिंशा, अहोरात्रा युगे स्मृताः । पञ्चानामपि वर्षाणां तत्तत्संख्यासमुच्चयात् ॥ ४५ ॥ तथाहि - संवत्स - रास्त्रयश्चान्द्रा, युगे द्वौ चाभिवर्द्धितौ । तत्र चन्द्राव्दस्य मानमित्येतत्प्राग्निरूपितम् ॥ ४६ ॥ चतुष्पञ्चाशदधिकमहोरात्रशतद्वयम् । द्वादश द्वाषष्टिभागा, अहोरात्रस्य चोपरि ॥ ४७ ॥ अस्मिंस्त्रिगुणिते जातमहोरात्र सह| स्रकम् । द्वाषष्ट्याऽभ्यधिकं षट्त्रिंशच्च द्वाषष्टिजा लवाः ॥ ४८ ॥ अभिवर्द्धितमानं चाहोरात्राणां शतत्रयम् । सत्र्यशीति चतुश्चत्वारिंशद् द्वाषष्टिजा लवाः ॥ ४९ ॥ अस्मिन् द्विगुणिते सप्त, शताः षट्षष्टिसंयुताः । अहो रात्राः स्युस्तथाष्टाशीतिर्द्वाषष्टिजा लवाः ॥ ५० ॥ अष्टाशीतिरमी भागाः, प्राच्यषट्त्रिंशता युताः । जाताचतुर्विशमेव, शतं द्वाषष्टिजा लवाः ॥ ५१ ॥ अहोरात्रद्वयं लब्धं द्वाषष्ट्याऽस्मिन् हृते सति । अष्टादश शतास्त्रिंशाः सर्वे संकलितास्ततः ॥ ५२ ॥ सप्तषष्टिर्ऋक्षमासा, द्वाषष्टिस्ते तथैन्दवाः । ऋतुमासाश्चैकषष्टिः, षष्टिर्मासा विवखतः ॥ ५३ ॥ अभिवर्द्धितमासाश्च, सप्तपञ्चाशदा हिताः । शिष्येत सप्ताहोरात्री, सैकादशमुहर्त्तिका ॥ ५४ ॥ त्रयोविंशतिरंशाश्च, मुहूर्त्तस्य द्विषष्टिजाः । मासानां मानमित्येवं, युगे प्रोक्तं पृथक पृथक् ॥ ५५ ॥ युगाहोरात्रवृन्द्रस्य, हृते भागे यथोदितैः । स्वीयस्त्रीयमा समानैर्युगे मासास्त्रयो ( तथा ) ऽत्र च ॥ ५६ ॥ अयनानि दश प्राहुतवस्त्रिंशदाहिताः । षष्टिर्मासाः शतं विंशं, पक्षाः सौरप्रमाणतः ॥ ५७ ॥ चतुष्प
1
For Private & Personal Use Only
चन्द्राद्यन्देषु मुहूर्त्ता दिनानि
२०
२५
॥ ३८५ ॥
२८
ainelibrary.org