SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तिसंज्ञं च, तृतीयं वर्षमीरितम् । चतुर्थं चन्द्रसंज्ञं च, पञ्चमं चाभिवर्द्धितम् ॥ ३॥ स्युर्मासाश्चन्द्रवर्षेषु, द्वादश द्वादश त्रिषु । अभिवर्द्धितवर्षे च, द्वे त्रयोदशमासके ॥ ४॥ द्वितीयस्येन्दुवर्षस्य, प्रथमः समयो हि | यः। तदनन्तरपाश्चात्यः, स्यादाद्यस्य क्षणोऽन्तिमः ॥५॥ आषाढाभिरुत्तराभिस्तदा योगो हिमश्रुतेः । तासां तदानीं स्यु ग्याः, षड्विंशतिर्मुहर्तकाः॥६॥ षड्विंशतिर्मुहर्तस्य, भागा द्वाषष्टिजास्तथा । द्वाषष्ट्यंशस्य चैकस्य, सप्तषष्ट्यंशशा लिनः ॥७॥ चतुष्पश्चाशद्विभागा, इह द्वाषष्टिजो लवः । सप्तषष्टिप्रविभक्तश्चूर्णिका- ५ भाग उच्यते ॥ ८॥ पुनर्वसुभ्यां साकं च, तदा योगो रवेर्भवेत् । मुहर्ताः षोडश तदा, तयोर्भाग्या भवन्ति । ३ हि ॥९॥ अष्टौ द्वाषष्टिजा भागा, मुहूर्तस्य तथोपरि । एकस्य द्वाषष्ट्यंशस्य, विंशतिशूर्णिका लवाः ॥१०॥ तथोक्तं सूर्यप्रज्ञप्ती-जे णं दोचस्स संवच्छरस्स आई से णं पढमस्स चंदसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छवीसं मुहुत्ता छवीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता सेसा । तं समयं च णं सूरे केणंणक्खत्तेणं जोएइ?, ता पुणवसुणा, पुणवसुस्स सोलस मुहुत्ता अट्ट य बावद्विभागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्टिहा छेत्ता वीसं चुण्णिया भागा सेसा" इति, एवं शेषेष्वपि सूत्रेषु | सूत्रालापकपद्धतिर्बोद्धव्या । योऽभिवर्द्धितवर्षस्य, तृतीयस्यादिमः क्षणः । तदनन्तरपाश्चात्यो, द्वितीयस्यान्तिमः क्षणः ॥ ११ ॥ तदा च पूर्वाषाढाभिस्सह योगो हिमयुतेः । मुहूर्ताः सप्त भागाश्च, त्रिपश्चाशदू विष- ।१४ E Jain Educ For Private mainelibrary.org a tional Personal Use Only IN
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy