SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कालनिरूपणे ॥ ३८३ ॥ Jain Education भारशतान्येकादशाष्ट च । द्वाषष्टिभागा भारस्य, तौल्यं वर्षेऽभिवर्द्धिते ११५९६ ॥ ९० ॥ पञ्चचत्वारिंशदाढ्या, आढकानां सहस्रकाः । षट्चत्वारिंशदंशाश्च मानं द्वाषष्टिजा दश ४६०४५१३ ॥ ९१ ॥ अभिवर्धिते तौल्यमेये ॥ पञ्च लक्षणभेदेनाप्युक्ताः संवत्सरा युगे । नक्षत्रचन्द्रक मष्णकराभिवर्द्धिताह्वयाः ॥ ९२ ॥ तथाहि--नक्ष त्राणि यथायोगं, स्वखमासानुसारतः । भवन्ति यत्र राकायां, कार्त्तिके कृत्तिका यथा ॥ ९३ ॥ तथोक्तं'जेट्ठो वच्च मूलेण सावणो घणिहाहिं । अद्दासु अ मग्गसिरो सेसा नकखत्तनामिया मासा ॥ १ ॥' ऋतवोऽपि यथायोगं, प्रवर्त्तन्ते महीतले । स्थिति वन्नाति हेमन्तः, कार्त्तिक्याः परतो यथा ॥ ९४ ॥ भवेत्संवत्सरो यश्च नात्युष्णो नातिशीतलः । बहूदकश्च नक्षत्रसंवत्सरमुशंति तम् ॥ ९५ ॥ माससदृशनामानि यत्र ऋक्षाणि पूर्णिमाः । समापयन्ति यः शीतातपरोगादिदारुणः ॥ ९६ ॥ बहूदकश्च तं प्राहुश्चन्द्रसंवत्सरं बुधाः । कर्मसंवत्सरस्येदं विज्ञेयमथ लक्षणम् ॥ ९७ ॥ दधत्यकाले तरवस्तत्र पुष्पफलादिकम् । सम्यग् यच्छति नाम्भोदो, मितंपच इवोदकम् ॥ ९८ ॥ इति कर्मवर्षफलं ॥ यत्रातिसरसा पृथ्वी, पाथोऽतिसरसं हितम् । रसो महान्मधूका म्रादीनां पुष्पफलादिषु ॥ ९९ ॥ यन्त्राल्पेनापि वर्षेण, धान्यं सम्यक् प्रजायते । सूर्य संवत्सरं प्राहुस्तमतिप्रौढ बुद्धयः || ४०० ॥ यत्रार्क तेजः संतप्ता, भवन्ति दिवसर्त्तवः । स्थलं निम्नाय - म्वपूर्ण, तमाहुरभिवर्द्धितम् ॥ १ ॥ इत्यर्थतो जम्बूद्वीपप्रज्ञप्तिवृत्त्यादिषु । पञ्चभिः खलु वर्षैश्च युगं भवति तत्र च । आयं चन्द्राभिधं वर्ष, द्वितीयमपि तादृशम् ॥ २ ॥ अभिव jonal For Private & Personal Use Only संवत्तोल्प मेये ऋक्षा दिवर्षफलं २० २५ ॥३८३॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy