________________
॥ ७७ ॥ वसुदेवस्य भूपस्य, देवकीकुक्षिजोऽङ्गजः । कृष्णाख्यो वासुदेवोऽभून्नवमोऽनवमद्युतिः ॥ ७८ ॥ रामाख्यो बलदेवोऽभूद्रोहिणीकुक्षिसंभवः । अस्य भ्राता विमात्रेयः, परमप्रीतिभाजनम् ॥ ७९ ॥ अयं श्रीनेमिनाथस्य, पितृव्यतनयः स्मृतः । यतः समुद्रविजयवसुदेवौ सहोदरौ ॥ ८० ॥ अयं वर्षसहस्रायुर्दशचापोच्छ्रितोऽभवत् । विभ्रत् क्षायिक सम्यक्त्वं श्राद्धो नेमिजिनेशितुः ॥ ८१ ॥ इति कृष्णः ॥
पञ्चाशीतिर्वत्सराणां, लक्षाण्याद्यस्य जीवितम् । द्वितीयस्यायुरब्दानां लक्षाणि पञ्चसप्ततिः ॥ ८२ ॥ पञ्चषष्टिस्तृतीयस्य, वर्षलक्षाणि जीवितम् । तुर्यस्य पञ्चपञ्चाशद्वर्षलक्षास्तदीरितम् ॥ ८३ ॥ लक्षाण्येवं सप्तदश, पञ्चमस्यायुरद्भुतम् । षष्ठस्यान्दसहस्राणि पञ्चाशीतिर्भवेदिदम् ॥ ८४ ॥ पञ्चषष्टिः सहस्राणि वर्षाणां सप्तमस्य तत् । वत्सराणां पञ्चदश सहस्राण्यष्टमस्य च ॥ ८५ ॥ शतानि द्वादशाब्दानां नवमस्यायुरीरितम् । नवानां बलदेवानां क्रमः प्रोक्तोऽयमायुषाम् ॥ ८६ ॥ बलदेवास्त्रययुत्वाऽनुत्तराख्यविमानतः । जातास्त्रयो महाशुक्राद्ब्रह्मलोकात्रयः क्रमात् ॥ ८७ ॥ विश्वनन्दिः १ सुबुद्धिश्व २, तथा सागरदत्तकः ३ । अशोको ४ ललित ५श्चैव, वराह ६ धनसेनको ७ ॥८८॥ तथाऽपराजितो ८ राजललित ९ श्रेति तीर्थपाः । नामानि बलदेवानां खर्गात्याच्यभवे जगुः ॥ ८९ ॥ युग्मम् । बलदेवा ययुर्मुक्तिपद्मष्टौ यथाक्रमम् । दशान्धिजीवितोऽन्त्यश्च ब्रह्मलोके सुरोऽभवत् ॥ ९० ॥ उत्सर्पिण्यां भविष्यन्त्यां ततश्युत्वाऽत्र भारते । भाविनः कृष्णजीवस्यार्हतस्तीर्थे स सेत्स्यति ॥ ९१ ॥ सप्तम्यां प्रथमो विष्णुः, षष्ठ्यां पञ्च गताः क्रमात् । पञ्चम्यां च चतुर्थ्यां च तृतीयायां क्षितौ
:
Jain Education vonal
For Private & Personal Use Only
१०
१४
ainelibrary.org