SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके चत्रयाद्येषु ॥५३९॥ Jain Education Int सुरैरपि । लक्ष्मणो वासुदेवत्वे, वलत्वे पद्मभूपतिः ॥ ६३ ॥ द्वादशाब्दसहस्रायुस्तुङ्गचापानि षोडश । अष्टमो वासुदेवोऽयमुक्तः पद्मानुजः श्रुते ॥ ६४ ॥ इति लक्ष्मणः ॥ गङ्गदन्तो वणिग्मातुरपमानाद्विरागवान् । द्रुमसेनर्षिपादान्ते, प्रव्रज्यां प्रतिपन्नवान् ॥ ६५ ॥ निदानं चक्रवानेवं, सोऽन्यदा हस्तिनापुरे । भूयासं तपसाऽनेन, जनानां वल्लभो भृशम् ॥ ६६ ॥ ततः खर्गे महाशुक्रे, स संजातः समाधिना । वृन्दारको महासौख्यो, महाकान्तिर्महास्थितिः ॥ ६७ ॥ इतश्च मथुरापुर्या, हरिवंशे नृपोऽभवत् । बृहद्बलाह्वयस्तस्य तनयो यदुसंज्ञकः ॥ ६८ ॥ तत्सुतो भूपतिः शूरस्तस्याभूतामुभौ सुतौ । नृपौ शौरिसुवीराख्यौ, जाग्रन्नीतिपराक्रमौ ॥ ६९ ॥ शूरः शौरिं न्यस्य राज्ये, व्रते प्रववृते स्वयम् । ततः शौरिः कनिष्ठाय, मथुराराज्यमार्पयत् ॥ ७० ॥ स्वयं कुशार्त्तदेशेषु, चक्रे शौरिः पुरं नवम् । जज्ञिरेऽन्धकवृष्ण्याद्यास्तनयाः शौरि भूपतेः ॥ ७१ ॥ भोजवृष्ण्यादयोऽभूवन, सुवीरनृपतेः सुताः । न्यवीविशन्नबीनं च, | स सौवीराख्यपत्तनम् ॥ ७२ ॥ भोजवृष्णिमहीनेतुर्मथुरानगरीपतेः । उग्रसेनोऽभवत्पुत्रो, योऽसौ राजी| मतीपिता ॥ ७३ ॥ नृपस्यान्धकवृष्णेश्च, सुभद्राकुक्षिसंभवाः । दशा भूवंस्तनुभुवो, दशाह इति ये श्रुताः ॥ ७४ ॥ समुद्रविजयो १ क्षोभ्य २, स्तिमितः ३ सागरस्तथा ४ । हिमवा ५ नचलाभिख्यो २, धरणः ७ पूरणोऽपि च ८ ॥ ७५ ॥ अभिचन्द्रो ९ वसुदेव १० स्तेषु प्राच्यनिदानतः । वसुदवोऽतिसौभाग्यात्, स्त्रीणामासीदतिप्रियः ॥ ७६ ॥ गङ्गदत्तस्य जीवोऽयमष्टमाद्देवलोकतः । स्थितिक्षये ततश्च्युत्वा, मथुरायां महापुरि For Private & Personal Use Only बलदेव कृष्णौ २५ ॥५३९॥ २८ relibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy