________________
ध्यति ॥ ४७ ॥ अस्ति मातुलपुत्री सा, भरतस्य महीपतेः । ततो युष्मदधीनैव, द्रोणमेघनृपात्मजा ॥४८॥ S/ततो भामण्डलहनूमदाद्याः खेचरेश्वराः । लब्धोपाया विमानेन, द्राग्जग्मुर्निशि कोशलाम् ॥ ४९ ॥ भरतं च । पुरस्कृत्य, पुरे कौतुकमङ्गले । गत्वा द्रोणमयाचन्त, विशल्यां कन्यकां ततः ॥ ५० ॥ सह कन्यासहस्रेण, ददौ । सौमित्रये तदा । विशल्यां द्रोणमेघो यद्नं रत्नेन योज्यते ॥५१॥ समादाय विशल्यां ते, निशाशेषेऽथ खेचराः। पद्मं पश्यन्तमध्वानं, दीनाननममृमुदन ॥५२॥ विशल्यापाणिसंस्पर्शाल्लक्ष्मणस्याङ्गतो द्रुतम् निरगात्सा महाशक्तिमत्रान्नागीव वेश्मतः॥ ५३ ॥ हनूमता सा नियोन्ती, धृता हस्तेऽब्रवीदिति । अमोघ|विजयाख्याऽहं, महाशक्तिमहामते ! ॥५४॥ धरणेन्द्रेण दत्ताऽस्मै, रावणायोग्रभक्तये । प्रज्ञप्त्या भगिनी देव| स्यापि लग्ना सुदुःसहाः॥५५॥ विशल्यया भवे पूर्वे, कृतानां तपसां महत् । तेजः सोदुमनीशाऽस्मि, द्रुतं गच्छामि मुञ्च माम् ॥५६॥ पटूभूतोऽथ सौमित्रिः, प्रातः पद्मानुशासनात् । सह कन्यासहस्रेणोदहति स्म विशल्यकाम् ॥ ५७ ॥ पुनः प्रवृत्ते संग्रामे, सौमित्रिदशकण्ठयोः। मुमोच रावणश्चक्रं, लक्ष्मणस्य जिघां- १० |सया ॥५८॥ तत्तु प्रदक्षिणां कृत्वा, सौमित्रेदक्षिणं करम् । अलचक्रे वशीभूतं, चिरपालितपक्षिवत् ॥५९॥ सचक्रं चूर्णयिष्यामीत्युन्माद्यन्तं दशाननम् । चक्रे तेनैव चक्रेण, विष्णुः पाटितवक्षसम् ॥ ६० ॥ ततश्च ज्येष्ठबहुलैकादश्यामपराहके। याम तृतीये नरक, चतुर्थे रावणो ययौ ॥ ६१॥ लङ्काराज्येऽभिषिच्याथ, पद्म राजो विभीषणम् । सीतामादाय सौमित्रिसेवितः कोशलां ययौ ॥ ६२॥ तत्र त्रिखण्डभूपालैरभिषिक्तः
oecececercerserserecterserservestreer
Jain Education
a
l
For Private Personel Use Only
Camelibrary.org