SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके चत्रयाद्येषु ॥५३७॥ शुभध्यानात्स चोत्पदे, खर्गे च्युत्वा ततोऽभवत् ॥ १ ॥ सुप्रतिष्ठपुरे विद्याधरो नाम्ना पुनर्वसुः । द्वासप्ततिकलाशाली, चतुरः सुभगः सुधीः ॥ २ ॥ युग्मं ॥ स चैकदा त्रिभुवनानन्दस्य चक्रवर्त्तिनः । सुतां कामवशो जहे, नामतोऽनङ्गसुन्दरीम् ॥ ३ ॥ पुण्डरीकाख्यविजयाद्, गच्छन्निजपुरीं प्रति । चक्रभृत्प्रहितैर्विद्याधरैः स रुरुधे युधे ॥ ४ ॥ विद्यास्त्रैर्विविधैर्नागतार्थ्याम्भोदानिलादिभिः । एतस्य युद्ध्यमानस्य, वैराग्यात्खविमानतः ॥ ५ ॥ कचिद्वन निकुञ्जे सा, पपातानङ्गसुन्दरी । विरराम ततो युद्धाद्विरक्तात्मा पुनर्वसुः ॥६॥ युग्मम् । समुद्रगुरुपादान्ते, ततः स्वीकृत्य संयमम् । काश्यां गतोऽन्यदाऽकार्षीन्निदानमिति चेतसा ॥ ७ ॥ अभविष्यं भवेऽस्मिंश्चेचक्रिणोऽर्द्धयलोऽप्यहम् । तन्मत्तश्चक्रिसैन्यार्थ्याऽयास्यन्नानङ्गसुन्दरी ॥ ८ ॥ भवान्तरेऽपि भूयासं, तपसाऽनेन तादृशः । तथा प्राणप्रिया भूयात्, सैषा मेऽनङ्गसुन्दरी ||९|| त्रिभिर्विशेषकम् । पुनर्वसुस्ततो जातः, सुरः खर्गे तृतीयके । चारित्रोपार्जितं तत्र, बुभुजे शं यथास्थिति ॥ १० ॥ अतितीव्रं तपोऽकार्षीद्वनस्थाऽनङ्गसुन्दरी । विहितानशना चान्ते, जग्रसेऽजगरेण सा ॥ ११ ॥ ततः समाधिना मृत्वा देवलोके तृतीयके । सुरत्वेन समुत्पेदे, बुभुजे चाद्भुतं सुखम् ॥ १२ ॥ इतश्च - नैमित्तिकोत्या स्ववधं ज्ञात्वा दशरथात्मजात् । प्रैषीद्दशरथं हन्तु, दश| ग्रीवो विभीषणम् ॥ १३ ॥ नारदर्दिशरथ भूभुजे द्राक्र सधर्मणे । अजिज्ञपद्दशग्रीवसंसद्याकर्ण्य तां कथाम् ॥ १४ ॥ श्रुत्वा दशरथोऽप्येवमयोध्याया विनिर्ययौ । समर्प्य मन्त्रिणे राज्यं, वेशान्तरतिरोहितः ॥ १५ ॥ मूर्त्ति दशरथस्याथ, कृत्वा लेपमयीं सुधीः । वेश्मन्यस्थापयन्मन्त्री, राज्ञः प्रख्यापयन् रुजम् ॥ १६ ॥ विभीषणोऽपि 1 Jain Educational For Private & Personal Use Only रामलक्ष्मणाधिकारः २० २५ ॥ ५३७ ॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy