SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ लो. १९१ Jain Education यो हारो, नवमाणिक्यनिर्मितः ॥ ८६ ॥ नागानां च सहस्रेण, रक्षितो निधिराजवत् । अनीशैर्वादुमखिलैः, पूर्वजैः पूजितः क्रमात् ॥ ८७ ॥ तं च हारं स वालोऽपि न्यवात्कण्ठे कराहृतम् । मुखैस्तद्रत्नसंक्रान्तैः सोऽभूदशमुखाह्वयः ॥ ८८ ॥ त्रैलोक्यकण्टकं चैनं वाली निर्जित्य संगरे । वैराग्येण प्रवव्राजाकार्षीच विविधं तपः ॥ ८९ ॥ तं पुष्पक विमानाधिरूढो दशमुखों व्रजन् । अष्टापदाचलेऽपश्यत्प्रतिमास्थं स्वलद्गतिः ॥ ९० ॥ दृष्ट्वा च वालिनं क्रुद्धोऽवादीदेवं दशाननः । निर्जित्य मां भयादेव, दम्भेन व्रतमग्रहीः ॥ ९१ ॥ मां बाहुमूले निक्षिप्य यथाऽभ्राम्यस्त्वमम्बुधीन् । तथा त्वां साद्विमुत्क्षिप्य लवणान्धौ क्षिपाम्यहम् ॥ ९२ ॥ इत्युदीर्य | विदार्य क्ष्मामष्टापद गिरेस्तले । प्रविश्य युगपद्विद्यासहस्रं मनसि स्मरन् ॥ ९३ ॥ धराधरं तमुद्दधे, चलयन्नचलातलम् । झलज्झलायितांभोधि, पतगिरिशिरः शतम् ॥ ९४॥ युग्मम् | अद्याप्ययं मयि क्रोधादनर्थं कुरुते हहा । मा भूद्भरतचैत्यानां भ्रंशोऽन्तरिति चिन्तयन् ॥ ९५ ॥ अवधिज्ञानवान्नानालब्धिर्वाली महामुनिः । गतस्पृहः शरीरेऽपि, चैत्यत्राणाय केवलम् ॥ ९६ ॥ अपीडयत्पदाङ्गुष्ठाग्रेणाष्टापद भूमिकाम् । तेनाक्रान्तश्च भारार्त्तकन्धरो दशकन्धरः ॥ ९७॥ भयार्त्तः संकुचद्गात्रो, रावयन् सकलां महीम् । आरावीद्भृशमाक्रन्दैस्ततोऽभूद्रावणाह्वयः॥९८॥ चतुर्भिः संनिदानकम् । अभूतां सोदरावस्य, भानुकर्णविभीषणौ । खसा चन्द्रणखा पट्टराज्ञी मन्दोदरीति च | ॥९९॥ भानुकर्णस्य कुम्भकर्ण इति चन्द्रणखायाः सूर्पणखेति च नामान्तरं । धनदत्तवसुदत्तसुहृद् यो ब्राह्मणः पुरा । आसीन्नाम्ना याज्ञवल्क्यः क्रमात्सोऽभूद्विभीषणः ॥ ३०० ॥ निहतः शम्भुना राज्ञा, श्रीभूतिर्यः पुरोहितः । For Private & Personal Use Only ional ५ १४ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy