SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके चत्र्याद्येषु ॥ ५३५ ॥ वासुदेवोऽभवन्नान्ना, दत्तो मत्तपराक्रमः ॥ ४० ॥ षट्पञ्चाशत्सहस्राब्दजीवितः सप्तमः स च । षड्विंशतिधनुस्तुङ्गो, नन्दनस्यानुजः स्मृतः ॥ ४१ ॥ इति दन्तः ॥ भरतेऽत्र क्षेमपुरे, नयदत्तवणिकसुतौ । धनदत्तवसुदत्तौ, सुनन्दाकुक्षिसंभवौ ॥४२॥ तत्र सागरदत्तोऽभूत्, पुत्रो गुणधरोऽस्य च । पुत्री गुणवती पित्रा, धनदत्ताय सा ददे ॥ ४३ ॥ मात्रा च रत्नप्रभया, श्रीकान्ताख्याय सा ददे । वसुदन्तेन तज्ज्ञातं, याज्ञवल्क्यसुहृन्मुखात् ॥ ४४ ॥ वसुदन्तस्ततो भ्रातृस्नेहाद्गुत्वाऽवधीन्निशि । श्रीकान्तं सोऽपि खगेन, वसुदत्तमुभौ ततः ॥ ४५ ॥ विन्ध्याटव्यां मृगौ जातावनूढा गुणवत्यपि । अभून्मृगी कृते तस्यास्तत्र युद्धा मृतावुभौ ॥ ४६ ॥ युग्मम् । मिथो वैरपरावेवं, भूयसश्चक्रतुर्भवान् । धनदत्तोऽप्यभूद् भ्रातृवियोगेनोन्मना भृशम् ॥ ४७ ॥ भ्रमन्निशि मुनीन् दृष्ट्वा, क्षुधितोऽयाचताशनम् । श्राद्धीकृतस्तैः प्रज्ञाप्य, धर्म सौधर्ममासदत् ॥ ४८ ॥ महापुरे ततश्च्युत्वा, धारणी मेरुदेहभूः । अभूत्पद्मरुचिर्नाम, श्रेष्ठी श्रावकपुङ्गवः ॥ ४९ ॥ स चैकस्यासन्नमृत्योः, परमेष्ठिनमस्त्रियाम् । वृषभस्य ददौ सोऽभूच्छत्रच्छायनृपाङ्गजः ॥ ५० ॥ दत्ताराज्ञ्याः कुक्षिजातो, नाम्ना च वृषभध्वजः । स तत्रैव पुरे भ्राम्यन्, वृषमृत्युभुवं ययौ ॥ ५१ ॥ प्राप्तश्च जातिस्मरणं, तत्र चैत्यमचीकरत् । भित्तावालेखयामास तत्रासन्नमृतिं वृषम् ॥ ५२ ॥ परमेष्ठिनमस्कारदायिनं पुरुषं च तम् । अलीलिखत्समीपस्थसपर्याणतुरङ्गमम् ॥ ५३ ॥ श्रेष्ठी पद्मरुचिस्तच्चापश्यत्तचैत्यमागतः । वृषभाय नमस्कारदानं खं वीक्ष्य विस्मितः ॥ ५४ ॥ नियुक्तः पुरुषैस्तत्र, पृष्टश्चोचे यथास्थितम् । मया तुरगमा Jain Educationonal For Private & Personal Use Only रामलक्ष्मणौ २५ ।। ५३५ ।। २७ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy