SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ शनृपः सोमः, सीता राज्ञी तयोः सुतः। पुरुषोत्तमनामाऽभूद्वासुदेवस्तुरीयकः॥२७॥ युग्मम् । स त्रिंशद्वर्षलक्षायुः। पञ्चाशद्धनुरुच्छ्रितः । अनुजः सुप्रभाख्यस्य, बलदेवस्य कीर्तितः ॥ २८ ॥ इति पुरुषोत्तमः ॥ सेवालनामा भूपालो, रणे वैरिपराजितः । कृष्णाख्यस्य गुरोः पार्श्वे, वैराग्यादग्रहीद्वतम् ॥ २९ ॥ निदानं । सोरिघाताय, पुरे राजगृहेऽकरोत् । माहेन्द्रे च समुत्पन्नः, खर्गे च्युत्वा ततः पुनः ॥३०॥ शिवो राजाऽम्मका राज्ञी, नगरेऽश्वपुराहये । ख्यातः पुरुषसिंहोऽभूत्, सनयस्तनयस्तयोः ॥३१॥ युग्मम् । अयं च पश्चचत्वारिंशत्को-II दण्डसमुच्छ्रितः। तथा दशाब्दलक्षायुः, ख्यातः सुदर्शनानुजः॥ ३२ ॥ इति पुरुषसिंहः॥ I प्रियमित्रोऽपि भार्यायां, हृतायामाददे व्रतम् । श्रीगङ्गगुरुपादान्ते, काकन्यां च गतोऽन्यदा ॥ ३३ ॥ निदानमकरोत्तत्र, प्रियाहर्तुर्वधाय सः। मृत्वोत्पन्नो ब्रह्मलोके, ततः पूर्णस्थितिइच्युतः ॥ ३४॥ लक्ष्मीवत्याः कुक्षिरत्नं, महाशिवनृपात्मजः। पुरुषपुण्डरीकाख्योऽभवचक्रपुरे हरिः ॥३५॥ त्रिभिर्विशेषकम् । पञ्चषष्टिसहस्राब्दजी-- व्यानन्दवलानुजः । एकोनत्रिंशतं तुङ्गश्चापान्ययमुदीरितः ॥ ३६॥ इति पुरुषपुण्डरीकः॥ I राजाङ्गजोऽभूल्ललितमित्रः स मापपर्षदि । राज्यायोग्योऽयमित्यूचे, मत्रिणा भूपतेः पुरः ॥ ३७॥ राज्ञोऽपमाने जातेऽथ, भूपभूराददे व्रतम् । सागरस्य गुरोः पार्थे, मिथिलायां गतोऽन्यदा ॥३८॥ वधाय मत्रिणस्तस्य, निदानं चकृवानथ। सौधर्मे त्रिदशः सोऽभूत्, संपूर्णस्थितिकस्ततः॥३९॥ वाराणस्यामग्निसिंहनृपशेषवतीसुतः। १० Jain Educatiot i onal For Private Personel Use Only Hainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy