________________
प्रमाणैः स्वखतीर्थभाविभिश्चतुर्विधबुद्ध्युपेतैरपरिमितैः साधुभिर्विरचितानि अपरिमितान्येव प्रकीर्णकानीत्यन्ये, 1 ऋषभादिजिनानां स्वस्वतीर्थभाविभिरपरिमितैःप्रत्येकवुद्धविरचितानि अपरिमितान्येव प्रकीर्णकानीत्यपरे, इत्या
द्यर्थतो नन्दीसूत्रवृत्तितोऽवसेयं, गच्छाचारवृत्तिर्वा विलोकनीयेति । पट्टाधिपानसंख्येयान् , यावत् श्रीवृ&षभप्रभोः । अविच्छिन्ना गतिर्माक्षे, प्रावर्तत महात्मनाम् ॥ ३॥ तानष्टौ चतुरो यावत्, क्रमात् श्रीनेमिपाश्वयोः।त्रीन् वीरस्य परेषां तु, संख्येयान्निखिलाहताम् ॥४॥ अन्तर्मुहर्तेऽतिक्रान्ते, श्रीनाभेयस्य केवलात्। मावर्त्तत गतिर्मोक्षे, नेमेवर्षद्वये गते ॥५॥ पार्श्वस्य त्रिषु वर्षेषु, चतुर्पु चरमप्रभोः । शेषाणां पुनरेकादिदिव-181 सातिक्रमे सति ॥ ६॥ अभूत्प्रवृत्तिः पूर्वाणामाद्यात्कुन्थुजिनावधि । असंख्यकालं संख्येयकालं पार्श्वजिनावधि ॥७॥ एकं सहस्रं वर्षाणां, महावीरस्य साऽभवत् । एतावान् पूर्वविच्छेदकालोऽपि सकलाहताम् ॥ ८॥
परं वर्षसहस्राणां, विंशतिश्चरमेशितुः । पार्श्वस्य नासौ सर्वेषामातीर्थं परमं श्रुतम् ॥९॥ श्रुतेष्वङ्गादिष्वबद्धा, IS ज्ञानिभिश्च प्रकाशिताः । आदेशास्ते शताः पश्चान्त्यस्यान्येषामनेकधा ॥ १० ॥ कुरुटोत्कुरुटौ साधू, सप्तमं । १० नरकं गतौ । बाल्येऽङ्गुष्टाग्रसंपर्कान्मेरुवीरेण कम्पितः ॥ ११॥ विहाय वलयाकारं, स्वयंभूरमणाम्बुधौ । सन्ति ।
मत्स्याश्च, समग्राकारशालिनः॥१२॥ अत्यन्तं स्थावरा सिद्धा, मरुदेवा महासती । असंहब्धाः श्रुते ज्ञेया, आदेशा एवमादयः ॥ १३ ॥ श्रेयांसः श्रावको मुख्यः, श्रीनाभेयजिनेशितुः । ते नन्दसूर्यशङ्खा१ महानिशीथे (३.९४) एतस्याधिकारस्य 'जह जिणवरो गिरि चाले' इत्यादिना स्पष्ठमुक्तत्वात् नाबद्धता ।
(Otheibrary.org
Jnin Education
For Private Personal Use Only