________________
य॑न्ते, पञ्चषष्टियुतास्ततः। शता एकोनचत्वारिंशदंशानां भवन्ति वै ॥५६॥ चतुश्चत्वारिंशदाब्यसप्तशत्यात्मक-र स्तथा । छेदोऽपवर्तितः षनिश्चतुर्विशं शतं भवेत् ॥५७॥ अपवर्तितभाज्यभाजकस्थापना १९६५ -१२४, राशी विभक्तेऽस्मिन् छेदेनामुना स्याद्यथोदितः।मासोऽभिवर्द्धिताब्दस्य, द्वादशांशात्मकः खलु ॥५८॥ वर्षे द्वाद मासाः स्युरित्यस्येयं मितिर्मता । वर्द्धते तु विधोर्मास, एव वर्षेऽभिवर्द्धिते ॥ ५९॥ एतनिष्पत्तिश्चैवं-परस्परं । यो विश्लेषो, भवेत्सूर्येन्दुमासयोः । स त्रिंशद्गुणितः ख्यातोऽधिमासस्तत्त्ववेदिभिः ॥ ६०॥ सार्द्धत्रिंशदहोरात्रो, भवेन्मासो विवस्वतः । एकोनत्रिंशदिन्दोस्ते, द्वाषष्ट्यंशा रदैर्मिताः ॥ ६१ ॥ विश्लेषश्चानयोरेकोऽहो-1 रात्रः परिकीर्तितः। द्वापष्टिभागेनकेन, न्यूनस्तत्रेति भावना ॥ ६२॥ इह चन्द्रमासे दिने राशेरुपरि ये द्वात्रिंशद् द्वापष्टिभागाः सन्ति तत्र एकत्रिंशता द्वाषष्टिभागैर्दिनार्धं जातं, तेन च सूर्यमासे यद्दिनराशेरुपरितनं दिनार्धं तत् शुद्धम्, अथैको द्वापष्टिभाग एकोनत्रिंशच दिनानि सूर्यमाससंबन्धिभ्यस्त्रिंशतो दिनेभ्यः शोध्यन्ते, तदा एकद्वाषष्टिभागन्यून एकोऽहोरात्रः स्थित इत्येष विश्लेषो ज्ञेयः । त्रिंशद्भवन्त्यहोरात्रा, एक-१० मिस्त्रिंशता हते । द्वापष्टिभागश्चैकोऽस्मात्रिंशद्गुणोऽपसार्यते॥६३॥ एकोनत्रिंशदित्येवं, दिनान्यंशारदैर्मिताः। मासोऽधिकोऽयं स्यात्रिंशत्सूर्यमासव्यतिक्रमे ॥ ६४॥ युगस्य मध्ये पौषोऽयमन्ते त्वाषाढ एव च । त पश्चमे वर्षे, तत एवाभिवर्द्धते ॥६५॥ एते पञ्चापि मासानां, भेदा द्वादशभिर्हताः । भवन्ति खववर्षा तन्मानं प्राग्निरूपितम् ॥६६॥
Jan Educ
ow.jainelibrary.org
a
For Private Personal Use Only
tional
( P AN
M