SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २ लोकप्रकाशे पञ्चाशद्दिनानि, च्छाद्मस्थ्यमभवद्विभोः। वरदत्तो द्वारिकायामाद्यमिक्षांप्रभोर्ददौ॥६४॥ शिबिका द्वारवत्या-श्रीनेमिपा३२ सर्गे| ख्या, वेतसो ज्ञानभूरुहः । अष्टादश गणाधीशा, एकादश मतान्तरे ॥६५॥ अष्टादश सहस्राः स्युः, साधूनां बनायौ 19 गुणशालिनाम् । चत्वारिंशत्सहस्राश्च, साध्वीनां विमलात्मनाम् ॥ ६६ ॥ श्रावकाणां लक्षमेकोनसप्ततिसहस्र॥५१७॥ युक । लक्षास्तिस्रः सहस्राः षट्, त्रिंशचोपासिका मताः॥ ६७ ॥ सातिरेकं पञ्चशत्या, सहस्रं सर्ववेदिनाम् ।। सहस्रमेकं संपूर्ण, मनःपर्यायवेदिनाम् ॥ ६८ ॥ सहस्रमवधिज्ञानभाजां पञ्चाशताऽधिकम् । शतानि तस्य | चत्वारि, सच्चतुर्दशपूर्विणाम् ॥ ३९॥ लसद्वैक्रियलब्धीनां, शताः पञ्चदशोदिताः । वादिनां स्युः शतान्यष्टावजय्यानां सुरैरपि ॥ ७० ॥ वरदत्तो गणी मुख्यो, यक्षदिन्ना प्रवर्तिनी । पितृव्यपुत्रः कृष्णाख्यो, वासुदेवश्च सेवकः ॥७१॥ मातुलिङ्गं च परशु, बिनचक्रं च दक्षिणे । करत्रयेऽथ नकुलं, शूलं शक्तिं च वामके ॥ ७२ ॥ गोमेधयक्षस्त्रिमुखः, श्यामः पुरुषवाहनः। षड्भुजो नेमिभक्तानां, वितनोति समीहितम् ॥७३॥ युग्मम् । | आम्रलुम्बिपाशयुक्तापसव्यकरयामला । पात्राङ्कुशव्यग्रवामकरयुग्माऽधिकद्युतिः ॥ ७४ ॥ मृगेन्द्रवाहना जात्यस्वर्णज्योतिश्चतुर्भुजा । श्रीनेमिभक्तान पात्यम्बादेव्यम्बेव हितावहा ॥ ७५ ॥ युग्मम् । इति श्रीनेमिः॥ २५ ___ कमठो मरुभूतिश्च, द्वावभूतां सहोदरौ । ब्राह्मणी कमठस्तत्र, भ्रातुर्जायामरीरमत् ॥ ७६ ॥ ज्ञातः कुर्वस्त- ॥५१७॥ मन्यायं, कदाचिन्मरुभूतिना । भूपाय ज्ञापितस्तेनाप्यन्यायीति विडम्बितः॥७७॥ अनात्मज्ञस्ततश्चासौ, भ्रातरि द्वेषमुद्वहन् । तापसोऽभूत्सोदरेण, खिस्यमानश्च तं न्यहन् ॥ ७८॥ मरुभूतिरभून्मृत्वा, श्वेतेभः कमठः पुनः २८ JainEducationR . For Private 3 Personal Use Only ONainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy