________________
दोष्णां चतुष्टये वामे, पुनः पाणिचतुष्टये ॥ ८७ ॥ वीजपूरं तथा शक्तिं, मुद्गरं चाक्षसूत्रकम् । दधानोऽष्टभुजो हस्तिवाहनश्चतुराननः ॥ ८८ ॥ इन्द्रायुधद्युतिर्यक्षः, कूबरः कुरुते श्रियम् । श्रीमल्लिनाथभक्तानां, कुवेरोऽसौ मतान्तरे ॥ ८९॥ त्रिभिर्विशेषकम् । वरदं चाक्षसूत्रं च, या दक्षिणकरद्वये । बीजपूरं तथा शक्ति, धत्ते । वामकरद्रये ॥९०॥ पद्मासना श्यामवर्णा, सा वैरोट्या चतुर्भुजा । पिपर्ति प्रार्थितं प्रीता, श्रीमल्लिजिनसेवनात् || ॥ ९१ ॥ युग्मम् । इति श्रीमल्लिः॥ | शिवकेतुरभूत्पूर्व, सौधर्मे त्रिदशस्ततः। ततः कुबेरदत्तोऽथ, सुरः खर्गे तृतीयके ॥१२॥ वज्रकुण्डलनामाथ, ब्रह्मवर्गे सुरस्ततः। ततोऽस्मिन् भरतक्षेत्रे, चम्पापुर्या रमाजुषि ॥९३॥ नृपः श्रीवर्मनामासी, सुनन्दगुरुसन्निधौ। प्रव्रज्य परमायुष्को, देवोऽभूदपराजिते ॥९४॥ युग्मम् । ततो मगधदेशेऽभूत्पुरे राजगृहे जिनः। पद्मावतीकुक्षिजन्मा, सुमित्रनृपतेः सुतः ॥ ९५ ॥ पौर्णमासी श्रावणस्य, कृष्णा ज्येष्ठस्य चाष्टमी । फाल्गुने द्वादशी शुक्ला, द्वादशी फाल्गुने सिता ॥ ९६ ॥ कृष्णा च ज्येष्ठनवमी, कल्याणकदिना अमी । एषु सर्वेषु नक्षत्रं, निर्दिष्टं । १० श्रवणाह्वयम् ॥ ९७ ॥ नव गर्भस्थितिर्मासाः, प्रभोरष्टदिनाधिकाः । कूर्मोऽङ्को मकरो राशिधनुर्विशतिरुच्छ्रयः | ॥९८॥ प्रभी गर्भस्थिते माता, मुनिवत्सुव्रताऽभवत् । स्वयं च सुव्रतस्तस्मान्नाम्नाऽर्हन्मुनिसुव्रतः ॥९९॥ चतुष्पश्चाशता वर्षलक्षैः श्रीमल्लिनिवृतेः । त्रिंशद्वर्षसहस्रोनैर्जन्माभूत्सुव्रतप्रभोः॥ ८०० ॥ लक्षाण्येकादशाब्दानां, वेदनाग(८४)सहस्रकाः। तुर्यारके म शिष्यन्ते, युताः श्रीसुव्रतायुषा ॥१॥ कौमार्येऽब्दसहस्राणि, सप्त सार्दा-1
Jain Educati
o
nal
For Private Personal Use Only
G
rjainelibrary.org