________________
२०
लोकप्रकाशे सिद्धेऽभूत्परमस्थितिकः सुरः॥ ८८ ॥ जीवो दृढरथस्यापि, भविष्यन् गणभृद्विभोः। मृत्वा तत्रैव देवोऽभू-श्रीशान्ति३२ सर्गे च्युत्वा मेघरथोऽथ च ॥ ८९ ॥ कुरुदेशशिरोरत्ने, पुरे श्रीहस्तिनापुरे । विश्वसेनस्य भूभर्तुः, पुत्रोऽभूदचिरा- नाथः
IS अजः॥९० ॥ प्रभौ गर्भे समुत्पन्ने, शशामोपद्रवोऽखिले । देशे जनानां मार्यादिस्ततः शान्तिरिति स्मृतः ॥५११॥
॥९१॥ अथवा--शान्तिः स्यात्क्रोधविजयः, शान्तिर्वोपद्रवक्षयः। शान्तिः शान्तरसो वा तत्प्रधानत्वात्तथाभिधः ॥ ९२॥ भाद्रस्य सप्तमी श्यामा, ज्येष्ठे कृष्णा त्रयोदशी । ज्येष्ठे चतुर्दशी कृष्णा, पौषे च नवमी सिता ॥ ९३ ॥ ज्येष्ठे त्रयोदशी कृष्णा, कल्याणकदिनाः प्रभोः। धिष्ण्यं च पञ्चस्वप्येषु, कीर्तितं यमदैवतम् &॥९४ ॥ नव मासाः स्थितिर्गर्भ, खामिनः षड्दिनाधिकाः । चत्वारिंशत्कार्मुकानि, प्रज्ञप्तो वपुरुच्छ्रयः ॥९॥ पादत्रयेण पल्यस्य, वर्षलक्षेण चोनितैः । त्रिभिः पयोधिभिः शान्तिर्धनिवाणतोऽभवत् ॥९६॥ पल्यपादत्रयी शेषा, तदा तुर्यारकेऽभवत् । पूर्वोक्तः शरदां लक्षः, सहस्रश्च समन्विता ॥९७॥ राशिमेषो मृगो लक्ष्म, वर्षलक्षं च जीवितम् । तुल्यैश्चतुर्भिर्भागैस्तत्पूरयामास विश्वजित् ॥ ९८॥ पञ्चविंशतिमन्दानां, सहस्राणि कुमारताम् । तावत्कालं च वुभुजे, मण्डलाधीशतामपि ॥ ९९॥ पञ्चविंशतिमेवाब्दसहस्रान् सार्वभौमताम् । कालं तावन्तमेवायं, व्रतपर्यायमाश्रयत् ॥७००॥ सर्वार्था शिबिका वर्षमेकं छद्मस्थता मता ॥५११॥ सुमित्रो मन्दिरपुरे, पारणां प्रथमां ददौ ॥१॥ अत्र वर्षमेकं छद्मस्थता मता इत्यावश्यकापेक्षया सप्ततिशत| स्थानकापेक्षया च पाठः, ननु ज्येष्ठासितचतुर्दश्याः पौषसितनवमीं यावद्गणने साधिकाः सप्त मासाः स्युः, यदि |
eseseneedeaosese
| २५
२८
Jain Educatio
n
al
For Private & Personal Use Only
jainelibrary.org