SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्येनः प्रोचे च भूपाल !, धर्माधर्मविचारणा । भवादृशां स्यात्तृप्तानां क्षुधार्त्तानां तु सा कुतः ? ॥ ७५ ॥ बिना सद्यस्कमांसं च, नाहारोऽस्मादृशां परः । तद् द्रुतं दीयतामेष, हत्या वा गृह्यतां मम ॥ ७६ ॥ नृपोऽथाचिन्तयत्पारापतोऽयं सर्वथा मया । रक्षणीयोऽयमप्यङ्गी, तर्पणीयो बुभुक्षितः ॥ ७७ ॥ इयेनं तत्तर्पयाम्येनं, निजैर्मासैर्यथोभयोः । दया स्यान्ननु देहेऽस्मिन् कः स्नेहः क्षणभङ्गुरे १ ॥ ७८ ॥ ततस्तुलायामारोप्य, मायापारापतं नृपः । उत्कृत्य खोरुमांसानि तोलयामास सात्त्विकः ॥ ७९ ॥ यथा यथा खमांसानि तुलायां भूधवो न्यधात्। तथा तथा प्रववृधे, कपोतो वीवधेन सः ॥ ८० ॥ दीनानने पुरजने, ऋन्दत्यन्तःपुरेऽखिले । तुलामारुह्य सोत्साहं, रसेनः श्येनमित्यवक् ॥ ८१ ॥ गृहाण श्येन ! देहं मे, कृतार्थं जीवरक्षणात् । तृतिस्तवाभयं चास्य, भूयान्मम च निर्जरा ॥ ८२ ॥ तं देहेऽपि गतस्नेह, निस्संदेह जिनागमे । नृपं वीक्ष्य दयावीरं, तुष्टस्तुष्टाव निर्जरः ॥ ८३ ॥ साधु साधु महाधीर !, वीरकोटीर साम्प्रतम् । ईशानेशोऽनिशं स्तौति, सत्त्वं ते देवपर्षदि ॥ ८४ ॥ शंसितोऽसि दयावीर !, यादृशः शूलपाणिना । ततः शतगुणोत्साहो, वीक्षितोऽसि परीक्षणे ॥ ८५ ॥ खेदितोऽसि वृथा राजन्नपराधं क्षमख मे । इति ब्रुवाणः पुष्पाणां वृष्टिं हृष्टस्ततान सः ॥ ८६ ॥ प्रादुष्कृत्य खरूपं खं, सज्जीकृत्य च भूपतिम् । चमत्कारचलन्मौलिः, सुरः खर्ग जगाम सः ॥ ८७ ॥ करुणावज्रायुधनाटके उत्तराध्ययनलघुवृत्तौ च वज्रायुधचक्रवर्त्तिभवेऽयं देवपरीक्षणादिर्व्यतिकर उक्तोऽस्तीति ध्येयं, तथा करुणावज्रायुधे परीक्षकौ द्वौ देवायुक्तौ इति ज्ञेयं । गुरोर्घनरथात्प्राप्य, दीक्षां मेघरथो नृपः । मृत्वा सर्वा Jain Education national For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy