________________
५
स्थादशीतिधनुरुच्छ्रितम् । वपुः षट्सप्ततिश्चोक्ताः, प्रभोगणभृतः श्रुते ॥ ५५ ॥ प्रभोश्चतुरशीतिश्च, सहस्राणि 1 मुमुक्षवः । लक्षमेकं च साध्वीनां, सहस्रत्रितयाधिकम् ॥५६॥ श्राद्धा लक्षद्वयमथैकोनाशीतिसहस्रकाः ।
चतुर्लक्ष्यष्टचत्वारिंशत्सहस्राण्युपासिकाः ॥ ५७ ॥ शतानि पञ्चषष्टिश्चाभूवन्निःशेषवेदिनाम् । षट् सहस्राणि शमिनां, मनःपर्यायवेदिनाम् ॥ ५८॥ स्फुरदैक्रियलब्धीनामेकादश सहस्रकाः । सहस्रा वादिनां पञ्चावधिज्ञानभृतां च षट् ॥ ५९॥ सच्चतुर्दशपूर्वाणां, शतान्यासंस्त्रयोदश । कौस्तुभो मुख्यगणभृद्धारिणी च प्रवर्तिनी ॥ ६०॥ त्रिपृष्टवासुदेवोऽभूत्प्रभुभक्तनृपः प्रभोः । यक्षश्च मनुजाभिख्य, ईश्वराख्यो मतान्तरे ॥ ६१ ॥ स । त्रिनेत्रः श्वेतवर्णो, वृषारूढश्चतुर्भुजः । मातुलिङ्गगदायुक्तसद्दक्षिणकरद्वयः ॥ १२॥ नकुलं चाक्षसूत्रं च, दध
द्वामकरद्वये । श्रियं श्रेयांसभक्तानां, वितनोति समीहिताम् ॥६३॥ युग्मम् । श्रीवत्साख्या प्रभोर्देवी, मानवी वा IS मतान्तरे । सिंहासीना गौरवर्णा, सा निर्दिष्टा चतुर्भुजा ॥ ६४॥ धत्ते दक्षिणयोः पाण्योर्वरदं मुद्गरं च सा।
धत्ते च वामयोः पाण्योः, क्रमात्कलशमकशम् ॥६५॥ युग्मम् । इति श्रेयांसः॥ | विजये मङ्गलावत्यां, पुष्करमाग्विदेहगे । सद्रत्नसंचयापुर्या, राजा पद्मोत्तरोऽभवत् ॥६६॥ गुरोः श्रीवज्रनाभस्य, पार्थे स प्राप्य संयमम् । सुरोऽभूत्प्राणतखर्गे, विंशत्यर्णवजीवितः ॥६७॥ चम्पापुर्यामङ्गदेशे, वसुपूज्यमहीपतेः।राज्या जयायास्तनुजो, वासुपूज्यस्ततोऽभवत् ॥६८॥ उज्वला नवमी ज्येष्ठे, भूतेष्टा फाल्गुनेडसिता । फाल्गुनेऽमावसी माघे, द्वितीया च समुज्वला ॥ ६९॥ शुक्लाऽऽषाढस्य भूतेष्टा, कल्याणकदिनाः
Jain Education
a IM
l
For Private
Personal Use Only
M
ainelibrary.org