SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३२ सर्गे ॥५०४॥ सुपार्श्वनिर्वृतेः । अभूत्पभोर्जन्म दशपूर्वलक्षोनकैः किल ॥ ७९ ॥ अधिकं दशभिः पूर्वलक्षैस्तुर्यारके तदा। श्रीसुपार्श्वशतमम्भोधिकोटीनां, शिष्यते स्मेशजन्मनि ॥ ८०॥ प्रभो गर्भगते मातुश्चन्द्रपानमनोरथात् । यद्वेन्दुसौम्पले-18| चन्द्रप्रभौ श्यत्वात् ,खामी चन्द्रप्रभाभिधः ॥८१॥ पूर्वलक्षद्वयं सार्दू, सार्दाः षट् पूर्वलक्षकाः । चतुर्विंशतिपूर्वाङ्गाधिकाः कौमार्यराज्ययोः।। ८२॥ चतुर्विशतिपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । श्रामण्यं तत्र मासानां त्रयं छदास्थतास्थितिः॥ ८३ ।। पूर्वाणां दश लक्षाणि, सर्वमायुरभूत्पभोः। धनुषां च शतं सार्द्ध, भगवदपुरुच्छ्यः ॥ ८४ ॥ मनोरमाऽऽख्या शिक्षिका, प्रथमां पारणां ददौ । पद्मखण्डे सोमदत्तो, नागाख्यो ज्ञानभूरुहः ॥८६॥ गणेशाश्च | त्रिनवतिरध्यर्द्ध लक्षयोयम् । संयतानां संयतीनां, लक्षास्तिस्रस्तथोपरि ॥ ८६ ॥ स्युरशीतिः सहस्राणि, श्राद्धा मुनिमिता मताः । पञ्चलक्षी नवसहस्रोनाश्चोपासिका मताः॥ ८७॥ सर्वज्ञानां सहस्राणि, दशाष्टौ च% मनोविदाम् । अष्टावधिस्पृशां वैक्रियाढ्यानां च चतुर्दश ॥ ८८ ॥ सहस्रे हे भगवतः, स्थाचतुर्दशपूर्विणाम् । अभूवन वादिनां सप्त, सहस्राः षट्शताधिकाः॥८९॥ दिन्नो गणधरो मुख्यः, सुमनाश्च प्रवर्तिनी । भक्तश्च मघवा भृमान् , यक्षः स्याद्विजयाभिधः॥९०॥ स च त्रिनेत्रो हरितवर्णाङ्गो हंसवाहनः। चक्रयुग्दक्षिणकरो, वामपाणी समुद्रः॥९१ ॥ प्रभोज्वालाऽभिधा देवी, भृकुटिश्च मतान्तरे। चतुर्भुजा पीतवर्णा, वरालकाख्य- ॥५०॥ वाहना ॥ ९२॥ वरालको जीवविशेषः ॥ सा खड्गमुद्गरौ धत्ते, हस्तयोरपसव्ययोः । फलक परशुं चैव, सव्ययोः करपद्मयोः॥ ९३ ॥ इति चन्द्रप्रभः॥ Jain Education a l For Private Personel Use Only Mrainelibrary.org HOM
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy