SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Jain Educatio विजये पुष्कलावत्यां प्राग्विदेहेषु पुष्करे । नगर्या पुण्डरीकिण्यां, महापद्मोऽभवनृपः ॥ ९४ ॥ स सर्वजगदानन्द गुरुपार्श्वे धृतव्रतः । एकोनविंशत्यन्ध्यायुरानते त्रिदशोऽभवत् ॥ ९५ ॥ शून्ये देशेऽथ काकन्यां पुर्यां सुग्रीवभूपतेः । रामाराज्ञीकुक्षिभवः, पुत्रोऽभूत् सुविधिर्जिनः ॥ ९६ ॥ फाल्गुने नवमी श्यामा, कृष्णा मार्गस्य पञ्चमी । | श्यामा षष्ठी च तस्यैव, तृतीया कार्त्तिकेऽसिता ॥ ९७ ॥ भाद्रस्य नवमी शुक्ला, कल्याणतिथयः प्रभोः । पञ्च| स्वप्येषु नक्षत्रं, मूलं राशिर्धनुर्भवेत् ॥ ९८ ॥ अष्टौ मासाः स्थितिर्गर्भे, षड्विंशतिदिनाधिकाः । मकरो लाञ्छनं देहोच्छ्रयञ्च धनुषां शतम् ॥ ९९ ॥ नवत्याऽम्भोधिकोटीनां, पूर्वलक्षद्वयोनया । श्रीचन्द्रप्रभूनिर्वाणाजातः श्रीसुविधिर्जिनः ॥ ५०० ॥ दश कोट्यः सागराणां, पूर्वलक्षद्वयाधिकाः । तुर्यारके स्म शिष्यन्ते, श्रीम | त्सुविधिजन्मनि ॥ १ ॥ शुभक्रियापरत्वेन, विख्यातः सुविधिः प्रभुः । माता वा गर्भकालेऽभूत्, सुविधिर्यत्तत| स्तथा ॥ २ ॥ पञ्चाशदेव पूर्वाणां कुमारत्वे सहस्रकाः । अष्टाविंशतिपूर्वाङ्गाधिकास्ते राज्यसंस्थितौ ॥ ३ ॥ अष्टाविंशतिपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । व्रते छद्मस्थता तत्र, प्रभोर्मासचतुष्टयम् ॥ ४ ॥ पूर्वलक्षद्वयं सर्वमायुरासी जगत्पतेः । सूरप्रभाख्या शिबिका, मल्लिः स्याद् ज्ञानभूरुहः ॥ ५ ॥ पुष्याभिख्यः श्वेतपुरे, पारणां प्रथमां ददौ । अष्टाशीतिर्गणभृतो, द्वे लक्षे मुनिसत्तमाः ॥ ६ ॥ लक्षमेकं च साध्वीनां सहस्राणि च विंशतिः । एकोनत्रिंशत्सहस्रा, द्वे लक्षे श्रावकोत्तमाः ॥ ७ ॥ श्राविकाणां चतुर्लक्षी, सहस्राण्येकसप्ततिः । केवलज्ञानभाजां स्युः, शतानि पञ्चसप्ततिः ॥ ८ ॥ शताः पञ्च सप्ततिश्च, मनः पर्यायशालिनाम् । अवधिज्ञानिनामष्टौ, For Private & Personal Use Only ational १० १४ ww.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy