________________
स्थितिः । वानरो लाञ्छनं राशिमिथुनाख्योऽभवत्प्रभोः ॥ ७२॥ पञ्चाशत्पूर्वलक्षोनैर्दशभिर्लक्षकोटिभिः।। सागरैर्भगवांस्तुर्योऽभवत्संभवमोक्षतः ॥ ७३ ॥ सपञ्चाशत्पूर्वलक्षा, दशान्धिलक्षकोटयः । अशिष्यन्त प्रभो-18 जन्मकाले तुर्यारकस्य च ॥७४ ॥ यतोऽभिनन्द्यते शक्रः, स्तूयते गर्भगोऽप्यतः । अभिनन्दननामाऽभूद्, यद्वा विश्वप्रमोदकृत् ॥ ७९ ॥ लक्षा द्वादश पूर्वाणां, सार्दाः कौमार्यमष्ट च । पूर्वाङ्गाण्यथ षट्त्रिंशल्लक्षाः सार्दाश्च राजता ॥ ७६ ॥ पूर्वाङ्गैरष्टभिन्यूनं, पूर्वलक्षं च साधुता । पञ्चाशत्पूर्वलक्षाणि, सर्वमायुः प्रकीर्तितम् ॥ ७७॥ धनुःशतनयं साई, प्रज्ञप्तो वपुरुच्छ्रयः । अभिनन्दनदेवस्याभिनन्दितशिवश्रियः ॥ ७८ ॥ व्रतेऽर्थसिद्धा शिविका, प्रथमं पारणं प्रभोः । अयोध्यायामिन्द्रदत्तमन्दिरे समजायत ॥ ७९ ॥ छद्मस्थकालो विज्ञेयो, वर्षाण्यष्टादश प्रभोः। ज्ञानद्रुमः प्रियाल: स्यात्, षोडशं गणिनां शतम् ॥ ८॥ लक्षास्तिस्रो भगवतः, संयतानां महात्मनाम् । षड् लक्षाः संयतीनां च, सहस्रस्त्रिंशताधिकाः ॥ ८१ ।। अष्टाशीतिः सहस्राणि, श्राद्धा लक्षद्वयं तथा । श्राविकाणां पञ्च लक्षाः, सहस्राः सप्तविंशतिः॥ ८२॥ चतुर्दश सहस्राणि, केवलज्ञानशालिनाम् । एकादश सहस्राः षट्, शताः सार्दा मनोविदः॥ ८३ ॥ अवधिज्ञानिनामष्टानवतिः स्युः शतानि च । शतानि पञ्चदश च, स्युश्चतुर्दशपूर्विणः ॥८४॥ सवैक्रियाणामेकोनविंशतिः स्युः सहस्रकाः। एकादश सहस्राणि, वादिनामभवन् विभोः॥८५॥ वज्रनाभो गणधरः, प्रथमः प्रथितः प्रभोः। प्रवर्तिन्यजिता मित्रवीर्यो भक्तनृपोऽभवत् ।। ८६॥ मातुलिङ्गाक्षसूत्राठ्यापसव्यकरयामलः । नकुलाशयुग्वामकरयुग्मश्चतुर्भुजः
दो. प्र.८५
Jain Education
a l
For Private Personel Use Only
(ONPinelorary.org