SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Jain Educatio जम्बूद्वीपे पुराऽत्रैव, प्राग्विदेहविभूषणे । वत्साख्ये विजये शीतानया याम्यतटस्थिते ॥ १६ ॥ सुसीमायामभूत्पुर्या, राजा विमलवाहनः । प्रवव्राजारिदमनगुरोः पार्श्वे स शुद्धधीः ॥ १७ ॥ मृत्वोत्पन्नश्च विजयचि - मानेऽमृतमुक्तया । त्रयस्त्रिंशत्सागरायुर्भुक्त्वाऽभूदजितो जिनः ॥ १८ ॥ पूरयोध्या कोशलेषु, जितशत्रुः प्रभोः पिता । विजया जननी राशिर्वृषो हस्ती च लाञ्छनम् ॥ १९ ॥ राधशुक्लत्रयोदश्यां माघेऽष्टम्यां सितत्विषि । माघे नवम्यां पौषे चैकादश्यां विमलद्युतौ ॥ २० ॥ चैत्रस्य शुक्लपञ्चम्यां पञ्च कल्याणकान्यथ । चतुर्षु रोहिणी भं स्यान्मृगशीर्षं च पञ्चमे ॥ २१ ॥ सर्वेषां च्यवनं खर्गाज्जायते जन्म चाहताम् । अर्द्धरात्र एव वेलानैयत्यं न व्रतादिषु ॥ २२ ॥ अहोभिः पञ्चभिर्न्यूना, मासा गर्भस्थितौ नव । ततः कृतजनानन्दजन्माभूदजितप्रभोः ॥ २३ ॥ द्वासप्तत्या पूर्वलक्षैरधिके तेजसाऽधिकः । शेषे तुर्यारकस्यार्द्धे, जातोऽसौ जगदीश्वरः ॥ २४ ॥ अत्र तुर्यारकस्यार्द्धं द्वाचत्वारिंशद्वर्षसहस्रोनपञ्चाशल्लक्ष कोटि सागरोपममानमवसेयं । रागाद्यैर्न जितो यस्मा - दू, गर्भस्थे वा प्रभौ प्रसूः । द्यूते यन्न जिता पत्या, ततोऽभूदजिताभिधः ॥ २५ ॥ अष्टादश पूर्वलक्षाः, कौमार्य - मभवत्प्रभोः । त्रिपञ्चाशत्पूर्वलक्षाः, सपूर्वाङ्गा नरेन्द्रता ॥ २६ ॥ धनुः शतानि सार्द्धानि, चत्वारि वपुरुच्छ्रयः । सुप्र भाख्या च शिविका, व्रतकालेऽभवत् प्रभोः ॥ २७ ॥ ब्रह्मदत्तगृहेऽयोध्यापुरे प्रथमपारणा । छाद्मस्थ्यं द्वादशादानि, ज्ञानं सप्तच्छदे तरौ ॥ २८ ॥ सपूर्वाङ्गाः पूर्वलक्षा, गृहे स्थित्वैकसप्ततिम् । पूर्वाङ्गोनं पूर्वलक्षमेकं संघमितां दधौ ॥ २९ ॥ द्वासप्ततिं पूर्वलक्षाण्यायुः सर्वमपालयत् । अभूवन् पञ्चनवतिः, प्रभोगणधरोत्तमाः ॥ ३० ॥ For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy