________________
लोकप्रकाशे ३२ सर्गे
।।४९८ ।।
'दुगपणनवगं' इत्यादयः पूर्वोक्ता एव ज्ञेयाः । भाव्या एवमसङ्ख्येया, विषमोत्तरदण्डिकाः । तावद्यावत्समु त्पन्नः, पिता श्री अजितार्हतः ॥ ३ ॥ उक्तं च - "विसमुत्तराए पढमा, एवमसंख विसमुत्तरा नेया । सवत्थवि अंतिलं अन्नाए आइमं ठाणं ॥ ४ ॥ अउणत्तीसं वारा ठावेडं नत्थि पढमि उक्खेवो । सेसे अडवीसाए सबत्थ दुगाइओ खेवो ॥ ५ ॥ सिवगइपढमादीए बीयाए तहय होइ सबट्ठे । इय एगंतरियाए सिवगइसवठाणाई ॥ ६ ॥ एवमसंखिजाओ चित्तंतरगंडिया मुणेयवा । जाव जिअसचुराया अजिअजिणपिआ समुप्पन्नो ॥७॥” एवं - सर्वार्थसिद्धनिर्वाणे, विहायान्यगतिष्विति । ययौ न पट्टभृत् कोऽपि, वंशे श्रीवृषभप्रभोः ॥ ८ ॥ सर्वा सिद्धशब्दोऽत्र, रूढोऽनुत्तरपञ्चके । अवकाशो भवत्यत्रैतावतामन्यथा कथम् ? ॥ ९ ॥ उक्तं च- " सर्वार्थशब्देन पश्चानुत्तरविमानानि लभ्यन्त " इति सिद्धदण्डिकास्तोत्रावचूर्णौ । एवं च-अनुलोमा १ विलोमा २ च, समसङ्ख्या ३ ततः परा । एकद्वित्रयुत्तरा ६ एकादिकाः स्युर्विषमोत्तराः ७ ॥ १० ॥ एताश्च सप्तधा सिद्धदण्डिकाः पूर्वमुक्तवान् । चक्रिणः सगराख्यस्य, सुबुद्धिः सचिवाग्रणीः ॥ ११ ॥ अष्टापदाद्रियात्रार्थं, गतैः सगरनन्दनैः । गतिं वृषभवंश्यानां पृष्ट ऐतिथकोविदः ॥ १२॥ एवं च सनवाशीतिपक्षेषु, पञ्चाशल्लक्ष कोटिषु । बासमतिपूर्वलक्षन्यूनेषु जलधिष्विह ॥ १३ ॥ अतिक्रान्तेषु वृषभप्रभोर्निर्वाणकालतः । अजायत जिनः श्रीमानजितो जितकल्मषः ॥ १४ ॥ अजायन्तारके तुर्ये, निर्वृते त्वजितप्रभौ । परिपूर्णाः पयोधीनां पञ्चाशलक्षकोटयः ॥ १५ ॥
Jain Educationational
For Private & Personal Use Only
सिद्धद
ण्डिका
२०
२५ ||४९८॥
२७
ainelibrary.org