________________
नया, शिथिताजा
18| प्रवर्त्तमानवैराग्यः, संप्राप्तः पश्चिमं वयः । सुदर्शनाख्यां शिविकामारूढः ससुरासुरः ॥ ५५ ॥ कृतषष्ठतपा
उग्रभोगादीनां सहस्रकैः । चतुर्भिः सार्द्धमागत्य, विनीतायाः पुरो बहिः॥५६॥ स सिद्धार्थवनोद्याने, Isशोकमहातरोः । चक्रे लोचं चतुर्मुष्टिमपराहे जगत्प्रभुः॥५७॥ स्वर्णवर्णा स शृङ्गस्थां, केशमुष्टिं च पञ्चमीम्।
ररक्ष शऋविज्ञप्या, दक्षो दाक्षिण्यसेवधिः ॥ ५८॥ अनुप्रत्रजितास्तेऽपि, स्वामिमार्गानुगामिनः । अरक्षन् पञ्चमी केशमुष्टिं स्कन्धोपरिस्थिताम् ॥ ५९॥ चैत्रस्य श्यामलाष्टम्यामेवमात्तव्रतः प्रभुः । विजहार क्षितावङ्गीकृतमौनाद्यभिग्रहः॥६०॥ तदानीं च न जानाति, लोको भिक्षा नु कीदृशी?। कीदृशाः खलु भिक्षाकाः?, दीयते सा कथं कदा ? ॥ ६१ ॥ अनुप्रबजितास्तेऽथ, कच्छाद्याः क्षुत्तृडर्दिताः । पृच्छन्ति भोजनोपायं, प्रभु प्रणतमौलयः ॥ १२ ॥ अजल्पति प्रभो नित्यं, क्षुद्व्यथामसहिष्णवः । गन्तुं गृहेऽनुचितमित्यभूवंस्तापसा वने | 21॥ ६३ ॥ अगृह्णन्नबुधैर्लोकीयमानं धनादिकम् । हस्तिनागपुरं प्रापदन्यदा विहरन् विभुः॥ ६४ ॥ खामी
किश्चिन्न लातीति, श्रुत्वा जनमहारवम् । दृष्ट्वा च प्रभुनेपथ्यं, श्रेयांसाख्यो नृपात्मजः ॥ ६५ ॥ जातजातिस्मृ- १० तिश्चित्ते, चिन्तयामासिवानिति । अहो प्रभुर्यतीभूतः, किं कुर्वीत धनादिभिः ॥६६॥युग्मम्। भवादहं तृतीये-191 ऽस्मात्खामिनश्चक्रवर्तिनः । सारथिः सार्द्धमतेनाभवं पालितसंयमः ॥ ६७ ॥ नवकोटिविशुद्धं तद्भोज्यमस्योपयुज्यते । कर्मक्षयसहायस्य, साधोहस्य धारकम् ॥ ६८ ॥ घटमिक्षुरसस्यैकं, केनचित्माभृतीकृतम् । तदा भगवते सोऽदानिर्दोष विशदाशयः ॥ १९ ॥ अत्र चावश्यकचूर्णावेक इक्षुरसघट उक्तः, पद्मानन्दकाव्यहैम-II
Jain Education
anal
For Private & Personal Use Only
jalnelibrary.org