SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ॥४९२ ॥ लोकप्रकाशे | महाः ॥ ३९ ॥ मेलको गोष्टिकादीनां पूर्यामादिपरिग्रहः । प्रयोजनविशेषेण, ग्रामादिजनसंगमः ॥ ४० ॥ एषु ३२ सर्गे किंचिज्जिने राज्यं, भुञ्जानेऽजायत क्रमात् । किञ्चित्किञ्चित्तथा चैवं प्रावर्त्तत तदन्वपि ॥ ४१ ॥ षङ्गिः कुलकं । स्वयं त्वदर्शयत्सर्वाः कलाः शिल्पानि च प्रभुः । तेषामनेकभेदत्वं, ततस्तेने जनः क्रमात् ॥ ४२ ॥ स्वस्तिकादिमङ्गलानि, रक्षादिकौतुकानि च । प्रभोः कृतानि देवैः प्राक, प्रावर्त्तन्त ततो जने ॥ ४३ ॥ केशवस्त्रालङ्कारैर्दृष्ट्वा | देवैरलङ्कृतम् | जगदीशं परेऽप्येवं कुर्वन्ति स्म जना भुवि ॥ ४४ ॥ चूलाकर्मादि बालानां, तिथिधिष्ण्यादिसौवे । लेखशालोपनयनं, प्रावर्त्तत विभोगिरा ॥ ४५ ॥ प्रभोरिन्द्रकृतं दृष्ट्वा, वीवाहस्य महोत्सवम् । लोका अपि तथा चक्रुः, पाणिग्रहणमङ्गलम् ॥ ४६ ॥ युग्मिधर्मनिषेधाय भरताय ददौ प्रभुः । सोदर्यां बाहुबलिनः, सुन्दरीं गुणसुन्दरीम् ॥ ४७ ॥ भरतस्य च सोदर्यां ददौ ब्राह्मीं जगत्प्रभुः । भूपाय बाहुबलिने, तदादि जनताऽप्यथ ॥ ४८ ॥ भिन्नगोत्रादिकां कन्यां दत्तां पित्रादिभिर्मुदा । विधिनोपायत प्रायः, प्रावर्त्तत तथा ततः | ॥ ४९ ॥ युग्मम् । एवं च पालयामास तद्राज्यं वृषभो नृपः । त्रिषष्टिं पूर्वलक्षाणि, प्रीणितप्राणिमण्डलः ॥ ५० ॥ त्र्यशीती पूर्वलक्षेषु गतेष्वेवं च जन्मतः । व्यतरद्वार्षिकं दानं जिघृक्षुः संयमं प्रभुः ॥ ५१ ॥ ददतं वार्षिकं दानं दृष्ट्वा च जगदीश्वरम् । प्रावर्त्तत जनोऽप्येवं दानं दातुं यथाविधि ॥ ५२ ॥ एवं च धनरत्नादिदानं प्रावर्त्तत क्षितौ । अद्यापि तत एवेदमविच्छिन्नं प्रवर्त्तते ॥ ५३ ॥ विभज्यादाज्जिनो राज्यशतं पुत्रशताय च । ततः पिता खपुत्रेभ्यो दद्यादित्यभवत् स्थितिः ॥ ५४ ॥ Jain Educatio stional For Private & Personal Use Only कर्मशिल्पा दि २० २५ ॥ ४९२ ॥ २७ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy