________________
राज्येऽभिषिक्तो वृषभः प्रभुः ॥ २४ ॥ कुर्वन्नश्वगजादीनां संग्रहं सुस्थितां स्थितिम् । राज्यस्य सकलां चक्रे, न्यायाध्वनि पुरस्सरः ॥ २५ ॥ प्रभुणा दर्शितेष्वेवं, मूलशिल्पेषु पञ्चसु । प्रावर्त्तन्त शिल्पशतं, कर्माण्यपि ततः | परम् ॥ २६ ॥ तद्व्यक्तिस्तु प्राग्दर्शिता । प्रावर्त्ततान्नपाकादिराहारविषयो विधिः । शिल्पं घटादिकृष्यादिक| र्माणि वचसा प्रभोः ॥ २७॥ नानारत्नाद्यलङ्कारैः प्रभोर्देहविभूषणाम् । दृष्ट्वा देवैः कृतां लोके, प्रावर्त्तत विभू पणा ॥ २८ ॥ ब्राह्म्या दक्षिणहस्तेन, दर्शिता लिपयोऽखिलाः । एकड्यादि च संख्यानं, सुन्दर्या वामपा| जिना ॥ २९ ॥ काष्ठपुस्तादिकमैवं भरतस्योपदर्शितम् । दर्शितं बाहुबलिने, स्त्रीनराश्वादिलक्षणम् ॥ ३० ॥ वस्तूनां मानसन्मानमुपमानं तथा परम् । प्रमाणं गणितं चेति, पञ्चकं व्यवहारकृत् ॥ ३१ ॥ मानं द्विधा धान्यमानं, रसमानं तथा परम् । धान्यमानं सेतिकादि, कर्षादि च रसस्य तत् ॥ ३२ ॥ पूगीफलादेर्गण्यस्योन्मानं संख्यानुमानतः । सहस्रं नालिकेराणां, पुञ्जेऽस्मिन्निति कल्पना ॥ ३३ ॥ उपमानं च तौल्येन, पलादिपरिभावनम् । हस्तदण्डादिना भूमिवस्त्रादेव मितिः स्फुटा ॥ ३४ ॥ इयद्वर्णमिदं स्वर्णमियत्पानीयक त्विदम् । रत्नमित्यादि प्रमाणं, गणितं प्राग्निरूपितम् ॥ ३५ ॥ प्रोतं दवरके मण्यादीनां सम्यग् निवेशनम् । समुद्रादौ च बोहित्थवाहनं पोतमृचिरे ॥ ३६ ॥ व्यवहारो विसंवादे, गत्वा राजकुलादिषु । न्यायस्य निश्चयो यद्वा वस्तूनां क्रयविक्रयौ ॥ ३७ ॥ नीतिः सामादिका युद्धं, बाहुयुद्धाद्यनेकधा । इषुशास्त्रं धनुर्वेदो, राजादीनां च सेवना ॥ ३८ ॥ वैद्यशास्त्रं नीतिशास्त्रं, बन्धनं निगडादिभिः । मारणं नागपूजाया, यज्ञा ऐन्द्रादयो
Jain Educationational
For Private & Personal Use Only
36
१४
jainelibrary.org