SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३२ सर्गे ॥४९०॥ Jain Education श्रीद्वयं प्रभोः । नमिश्च विनमिचेति, परौ क्रोडीकृतौ सुतौ ॥ ७८ ॥ युग्मिनां कलहे जातु, रीत्या पूर्वोक्तयो त्थिते । निवेदयन्ति तत्सर्वे, ज्ञात्वा ज्ञानाधिकं प्रभुम् ॥ ७९ ॥ प्रभुरप्याह राजैव, निवारयति दुर्नयात् । स चाभिषिक्तः सर्वेषामैश्वर्याद्दुरतिक्रमः ॥ ८० ॥ स राजाऽस्माकमप्यस्तु तैरित्युक्तेऽवदत्प्रभुः । नत्वा नाभि कुलकरं, याचध्वं भूपमीप्सितम् ॥ ८१ ॥ तैर्विज्ञप्तोऽवदन्नाभिर्भूयाद्वृषभ एव च । राजेति तेऽभिबेकार्थं, यावद्गच्छन्ति वारिणे ॥ ८२ ॥ तावत्कम्प्रासनः शक्रोऽभ्यषिञ्चद् द्रुतमागतः । राज्येऽर्हन्तं घृतच्छत्रं, रत्नसिंहासन स्थितम् ॥ ८३ ॥ युग्मम् । अथाम्भः पूर्णनलिनीपत्र भाजनपाणयः । आगतास्ते प्रभुं दृष्ट्वा, सर्वालङ्कारभासुरम् ॥ ८४ ॥ विस्मिता मुदिताश्चान्तरुत्कण्ठासंभृता अपि । उद्यद्विवेकास्तैर्नरैः प्रभोरस्नपयन पदौ ॥८५॥ युग्मम् । तथाऽऽह धनपालः परमाहतः - " धन्ना सविम्हयं जेहिं झत्ति कयरज्जमज्जणो हरिणा । चिरधरियनलिणिपत्ताभिसेअसलिलेहिं दिट्ठो सि ॥ ८६ ॥” विनयेन ततस्तेषां संतुष्टो वासवो भृशम् । विनीतां नगरीमेषां निवासार्थमरीरचत् ॥ ८७ ॥ अस्याः खरूपं चैवमाहुः -श्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम् । धनदः स्थापयामास, रत्नचामीकरोत्करैः ॥ ८८ ॥ द्वादशयोजनायामा, नवयोजनविस्तृता । अष्टद्वारा महाशाला, साऽभवतोरणोज्वला ॥ ८९ ॥ धनुषां द्वादश शतान्युच्चैस्त्वेऽष्टशतं तले । व्यायामे शतमेकं स, व्यधाद्वनं सखातिकम् ॥ ९० ॥ सौवर्णस्य च तस्योर्ध्वं कपिशीर्षावलिर्बभौ । मणिजामरशैलस्थनक्षत्रालिरिवोद्गता ॥ ९१ ॥ चतुरस्राश्च व्यस्राश्च वृत्ताश्च स्वस्तिकास्तथा । मन्दाराः सर्वतोभद्रा, एकभूमा द्विभूमकाः ॥ ९२ ॥ त्रिभूमायाः ational For Private & Personal Use Only ऋषभस्य राज्याभिषे कादि १५ २० ।। ४९० ।। २५ २६ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy