________________
सप्तभूमं, यावत्सामान्यभूभुजाम् । प्रासादाः कोटिशस्तत्राभूवननसुवर्णजाः ॥ ९३ ॥ युग्मं ॥ दिश्यैशान्यां सप्तभूमं, चतुरस्रं हिरण्मयम् । सवप्रखातिकं चक्रे, प्रासादं नाभिभूपतेः॥ ९४ ॥ दिश्यैन्या सर्वतोभद्रं, सप्तभूमं | महोन्नतम् । बर्नुलं भरतेशस्य, प्रासादं धनदोऽकरोत् ॥ ९५ ॥ आग्नेय्यां भरतस्येव, सौधं बाहबलेरभत । शेषाणां च कुमाराणामन्तरा ह्यभवंस्तयोः॥९६॥ तस्यान्तराऽऽदिदेवस्य, चैकविंशतिभूमिकम् । त्रैलोक्यविभ्रमाह्वानं, प्रासादं रत्नराजिभिः॥९७ ॥ सवप्रखातिकं रम्यं, सुवर्णकलशावृतम् । चञ्चध्वजपटव्याजान्नत्यन्तं निर्ममे हरिः॥९८॥ युग्मं ॥ अष्टोत्तरसहस्रेण, मणिजालैरसौ बभौ । तावत्संख्येमुखैभूरि, ब्रुवाण इव तद्यशः ॥ ९९ ॥ कल्पद्रुमैर्वृताः सर्वेऽभूवन सेभयौकसः। सप्राकारा बृहदासःपताकामालभारिणः ॥१०॥ सुधर्मसदृशी चारुरत्नमय्यभवत् पुरः। युगादिदेवप्रासादात, सभा सर्वप्रभाभिधा ॥१॥ चतुर्दिक्षु व्यराजन्त, मणितोरणमालिकाः । पञ्चवर्णप्रभाङ्करपूरडम्बरिताम्बराः ॥२॥ अष्टोत्तरसहस्रेण, मणिबिम्बैर्विभूषितम् । गव्यूतिद्वयमुत्तुङ्गं, मणिरत्नहिरण्मयम् ॥ ३॥ नानाभूमिगवाक्षाढ्यं, विचित्रमणिवेदिकम् । प्रासादं जगदी-||१० शस्य, व्यधाच्छ्रीदः पुरान्तरा ॥ ४॥ युग्मं ॥ सामन्तमण्डलीकानां, नन्द्यावर्त्तादयः शुभाः। प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥५॥ अष्टोत्तरसहस्रं तु, जिनानां भवनान्यभुः । उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यधः॥६॥ चतुष्पथप्रतिबद्धाश्चतुरशीतिरुच्चकैः ।प्रासादाश्चाहतां रम्या, हिरण्यकलशैर्वभुः ॥७॥ सौधानि हिरण्यरत्नमयान्युचैः सुमेरुवत् । कौबेर्गा सपताकानि, चक्रे स व्यवहारिणाम् ॥ ८॥ दक्षिणस्यां। १४
Jain Educatio
n
al
For Private Personel Use Only
Ndjainelibrary.org