________________
HS॥ ६४ ॥ आकुशब्दो भक्षणार्थे, इक्षोस्तद्भक्षणेच्छया । इक्ष्वाकुर्भगवानेतद्वंश्याश्चैश्वाकवः स्मृताः ॥६५॥
एवं च-इक्ष्वाकुवंशजा ज्ञेया, जिना द्वाविंशतिर्बुधैः । हरिवंशसमुद्भूती, श्रीनेमिमुनिसुव्रतौ ॥ ६६ ॥ तदा । च दम्पती कोचिद्विमुच्य सुतनन्दने । तालस्याधः प्राविशतां, क्रीडायै कदलीगृहम् ॥ ६७ ॥ तालतः पतता पक्कफलेन तनयो मृतः। अकालमृत्युराद्योऽत्रावसर्पिण्यामभूदयम् ॥ ६८॥ अवशिष्टां ततः पुत्री, प्रतिपाल्य दिवं गतौ । युग्मिनी दम्पती खल्पकषायौ तौ शुभाशयौ ॥ ६९॥ अथात्यन्तोत्कृष्टरूपां, कन्यामेकाकिनीमिमाम् । दृष्ट्वा न्यवेदयन् युग्मिमनुजा नाभयेऽन्यदा ॥ ७० ॥ भविष्यति सुनन्देयं, ऋषभस्य परिग्रहः । इति प्रज्ञाप्य तान् सर्वान् , नाभिराहतवानिमाम् ॥ ७१ ॥ अथ भोगसमर्थ तं, विज्ञाय जगदीश्वरम् । अकार्षीद्धरिरागत्य, तत्पाणिग्रहणोत्सवम्॥७२॥विधिं वरोचितं सर्वमकार्षीत्तत्र वासवः। कन्योचितं द्वयोः कन्योः, शच्योकार्षः प्रमोदतः॥७३॥ ताभ्यां च सह भुनाने, विविधान् विषयान् विभौ । षट्खतीतेषु लक्षेषु, पूर्वाणां जन्मकालतः॥७४॥ पञ्चमानुत्तराच्युत्वा, पीठो बाहुश्च युग्मजौ । जातौ सुमङ्गलादेव्यां, ब्राह्मीभरतसंज्ञको ॥ ७५ ॥ महापीठ: सुबाहुश्च, सुनन्दाकुक्षिसंभवौ। सुन्दरीबाहुबल्याख्यावभूतां च सुतासुतौ ॥७६ ॥ ततः सुमङ्गलैकोनपञ्चाशतमसूत च । पुनर्युग्मानि पुत्राणां, फलानीव घुसल्लता ॥ ७७॥ शतमेवं च पुत्राणामभूत्पु
१ यद्यप्यत्र मातापित्रोर्जीवतोस्तनयस्य स्वर्गम इति कथनं, अन्यत्र तथा व्यक्तेरभावेऽपि मातापितरयोरुपरतयोः तथात्वसूचनं अन्य-15 योगलिकैनिवेदनात् , उभयथापि मातापितरयोर्मृत्योरनन्तरं निवेदने न विरोधः ।
Jain Educat
i onal
For Private Personel Use Only
jainelibrary.org